Atharvaveda 18.2

पितृमेधः।

18.2.1

१-६० अथर्वा | यमः, मन्त्रोक्ताः, ४, ३४ अग्निः, ५ जातवेदाः, २९ पितरः | त्रिष्टुप्, १-३, ६, १४- १८, २०, २२-२३, २५, ३०, ३४, ३६, ४६, ४८, ५०-५२, ५६ अनुष्टुप्, ४, ७, ९, १३ जगती, ५ , २६, ४९, ५७ भुरिक्, १९ त्रिपदाऽर्षी गायत्री, २४ त्रिपदा समविषमाऽर्षी गायत्री, ३७ विराड् जगती, ३८-४४ आर्षी गायत्री, (४०, ४२-४४ भुरिक्) ४५ ककुम्मती अनुष्टुप् | य॒माय॒ सोमः॑ पवते य॒माय॑ क्रियते ह॒विः | य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

18.2.1

१-६० अथर्वा | यमः, मन्त्रोक्ताः, ४, ३४ अग्निः, ५ जातवेदाः, २९ पितरः | त्रिष्टुप्, १-३, ६, १४- १८, २०, २२-२३, २५, ३०, ३४, ३६, ४६, ४८, ५०-५२, ५६ अनुष्टुप्, ४, ७, ९, १३ जगती, ५ , २६, ४९, ५७ भुरिक्, १९ त्रिपदाऽर्षी गायत्री, २४ त्रिपदा समविषमाऽर्षी गायत्री, ३७ विराड् जगती, ३८-४४ आर्षी गायत्री, (४०, ४२-४४ भुरिक्) ४५ ककुम्मती अनुष्टुप् | य॒माय॒ सोमः॑ पवते य॒माय॑ क्रियते ह॒विः | य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः ||

18.2.2

य॒माय॒ मधु॑मत्तमं जु॒होता॒ प्र च॑ तिष्ठत | इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे॑भ्यः पथि॒कृद्भ्यः॑ ||

18.2.3

य॒माय॑ घृ॒तव॒त् पयो॒ राज्ञे॑ ह॒विर्जु॑होतन | स नो॑ जी॒वेष्वा य॑मेद् दी॒र्घमायुः॒ प्र जी॒वसे॑ ||

18.2.4

मैन॑मग्ने॒ वि द॑हो॒ माभि शू॑शुचो॒ मास्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रम् | शृ॒तं य॒दा कर॑सि जातवे॒दोऽथे॑मेनं॒ प्र हि॑णुतात् पि॒तॄँरुप॑ ||

18.2.5

य॒दा शृ॒तं कृ॒णवो॑ जातवे॒दोऽथे॒ममे॑नं॒ परि॑ दत्तात् पि॒तृभ्यः॑ | य॒दो गच्छा॒त्यसु॑नीतिमे॒तामथ॑ दे॒वानां॑ वश॒नीर्भ॑वाति ||

18.2.6

त्रिक॑द्रुकेभिः पवते॒ षडु॒र्वीरेक॒मिद् बृ॒हत् | त्रि॒ष्टुब् गा॑य॒त्री छन्दां॑सि॒ सर्वा॒ ता य॒म आर्पि॑ता ||

18.2.7

सूर्यं॒ चक्षु॑षा गच्छ॒ वात॑मा॒त्मना॒ दिवं॑ च॒ गच्छ॑ पृथि॒वीं च॒ धर्म॑भिः | अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ||

18.2.8

अ॒जो भा॒गस्तप॑स॒स्तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः | यास्ते॑ शि॒वास्त॒न्वोऽ जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम् ||

18.2.9

यास्ते॑ शो॒चयो॒ रंह॑यो जातवेदो॒ याभि॑रापृ॒णासि॒ दिव॑म॒न्तरि॑क्षम् | अ॒जं यन्त॒मनु॒ ताः समृ॑ण्वता॒मथेत॑राभिः शि॒वत॑माभिः शृ॒तं कृ॑धि ||

18.2.10

अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धावा॑न् | आयु॒र्वसा॑न॒ उप॑ यातु॒ शेषः॒ सं ग॑च्छतां त॒न्वा सु॒वर्चाः॑ ||

18.2.11

अति॑ द्रव॒ श्वानौ॑ सारमे॒यौ च॑तुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था | अधा॑ पि॒तॄन्त्सु॑वि॒दत्रां॒ अपी॑हि य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति ||

18.2.12

यौ ते॒ श्वानौ॑ यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒षदी॑ नृ॒चक्ष॑सा | ताभ्यां॑ राज॒न् परि॑ धेह्येनं स्व॒स्त्यऽस्मा अनमी॒वं च॑ धेहि ||

18.2.13

उ॒रू॒ण॒साव॑सु॒तृपा॑वुदुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनां॒ अनु॑ | ताव॒स्मभ्यं॑ दृ॒शये॒ सूर्या॑य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रम् ||

18.2.14

सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते | येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ तां॑श्चिदे॒वापि॑ गच्छतात् ||

18.2.15

ये चि॒त् पूर्व॑ ऋ॒तसा॑ता ऋ॒तजा॑ता ऋता॒वृधः॑ | ऋषी॒न् तप॑स्वतो यम तपो॒जां अपि॑ गच्छतात् ||

18.2.16

तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्वऽर्य॒युः | तपो॒ ये च॑क्रि॒रे मह॒स्तांश्चि॑दे॒वापि॑ गच्छतात् ||

18.2.17

ये युध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नू॒त्यजः॑ | ये वा॑ स॒हस्र॑दक्षिणा॒स्तांश्चिदे॒वापि॑ गच्छतात् ||

18.2.18

स॒हस्र॑णीथाः क॒वयो॒ ये गो॑पा॒यन्ति॒ सूर्य॑म् | ऋषी॒न् तप॑स्वतो यम तपो॒जां अपि॑ गच्छतात् ||

18.2.19

स्यो॒नास्मै॑ भव पृथिव्यनृक्ष॒रा नि॒वेश॑नी | यच्छा॑स्मै॒ शर्म॑ स॒प्रथाः॑ ||

18.2.20

अ॒सं॒बा॒धे पृ॑थि॒व्या उ॒रौ लो॒के नि धी॑यस्व | स्व॒धा याश्च॑कृ॒षे जीव॒न् तास्ते॑ सन्तु मधु॒श्चुतः॑ ||

18.2.21

ह्वया॑मि ते॒ मन॑सा॒ मन॑ इ॒हेमान् गृ॒हाँ उप॑ जुजुषा॒ण एहि॑ | सं ग॑च्छस्व पि॒तृभिः॒ सं य॒मेन॑ स्यो॒नास्त्वा॒ वाता॒ उप॑ वान्तु श॒ग्माः ||

18.2.22

उत् त्वा॑ वहन्तु म॒रुत॑ उदवा॒हा उ॑द॒प्रुतः॑ | अ॒जेन॑ कृ॒ण्वन्तः॑ शी॒तं व॒र्षेणो॑क्षन्तु॒ बालिति॑ ||

18.2.23

उद॑ह्व॒मायु॒रायु॑षे॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑ | स्वान् ग॑च्छतु ते॒ मनो॒ अधा॑ पि॒तॄंरुप॑ द्रव ||

18.2.24

मा ते॒ मनो॒ मासो॒र्माङ्गा॑नां॒ मा रस॑स्य ते | मा ते॑ हास्त त॒न्वः॑१ किं च॒नेह ||

18.2.25

मा त्वा॑ वृ॒क्षः सं बा॑धिष्ट॒ मा दे॒वी पृ॑थि॒वी म॒ही | लो॒कं पि॒तृषु॑ वि॒त्त्वैध॑स्व य॒मरा॑जसु ||

18.2.26

यत् ते॒ अङ्ग॒मति॑हितं परा॒चैर॑पा॒नः प्रा॒णो य उ॑ वा ते॒ परे॑तः | तत् ते सं॒गत्य॑ पि॒तरः॒ सनी॑डा घा॒साद् घा॒सं पुन॒रा वे॑शयन्तु ||

18.2.27

अपे॒मं जी॒वा अ॑रुधन् गृ॒हेभ्य॒स्तं निर्व॑हत॒ परि॒ ग्रामा॑दि॒तः | मृ॒त्युर्य॒मस्या॑सीद् दू॒तः प्रचे॑ता॒ असू॑न् पि॒तृभ्यो॑ गम॒यां च॑कार ||

18.2.28

ये दस्य॑वः पि॒तृषु॑ प्रवि॑ष्टा ज्ञातिमु॒खा अ॑हु॒ताद॒श्चर॑न्ति | प॒रा॒पुरो॑ नि॒पुरो॒ ये भर॑न्त्य॒ग्निष्टान॒स्मात् प्र ध॑माति य॒ज्ञात् ||

18.2.29

सं वि॑शन्त्वि॒ह पि॒तरः॒ स्वा नः॑ स्यो॒नं कृ॒ण्वन्तः॑ प्रति॒रन्त॒ आयुः॑ | तेभ्यः॑ शकेम ह॒विषा॒ नक्ष॑माणा॒ ज्योग् जीव॑न्तः श॒रदः॑ पुरू॒चीः ||

18.2.30

यां ते॑ धे॒नुं नि॑पृ॒णामि॒ यमु॑ ते क्षी॒र ओ॑द॒नम् | तेना॒ जन॑स्यासो भ॒र्ता योऽत्रास॒दजी॑वनः ||

18.2.31

अश्वा॑वतीं॒ प्र त॑र॒ या सु॒शेवा॒र्क्षाकं॑ वा प्रत॒रं नवी॑यः | यस्त्वा॑ ज॒घान॒ वध्यः॒ सो अ॑स्तु॒ मा सो अ॒न्यद् वि॑दत भाग॒धेय॑म् ||

18.2.32

य॒मः परोऽव॑रो॒ विव॑स्वा॒न् ततः॒ परं॒ नाति॑ पश्यामि॒ किं च॒न | य॒मे अ॑ध्व॒रो अधि॑ मे॒ निवि॑ष्टो॒ भुवो॒ विव॑स्वान॒न्वात॑तान ||

18.2.33

अपा॑गूहन्न॒मृतां॒ मर्त्ये॑भ्यः कृ॒त्वा सव॑र्णामदधु॒र्विव॑स्वते | उ॒ताश्विना॑वभर॒द् यत् तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ||

18.2.34

ये निखा॑ता॒ ये परो॑प्ता॒ ये द॒ग्धा ये चोद्धि॑ताः | सर्वां॒स्तान॑ग्न॒ आ व॑ह पि॒तॄन् ह॒विषे॒ अत्त॑वे ||

18.2.35

ये अ॑ग्निद॒ग्धा ये अन॑ग्निदग्धा॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते | त्वं तान् वे॑त्थ॒ यदि॒ ते जा॑तवेदः स्व॒धया॑ य॒ज्ञं स्वधि॑तिं जुषन्ताम् ||

18.2.36

शं त॑प॒ माति॑ तपो॒ अग्ने॒ मा त॒न्वं॑१ तपः॑ | वणे॑षु॒ शुष्मो॑ अस्तु ते पृथि॒व्याम॑स्तु॒ यद्धरः॑ ||

18.2.37

ददा॑म्यस्मा अव॒सान॑मे॒तद् य ए॒ष आग॒न् मम॒ चेदभू॑दि॒ह | य॒मश्चि॑कि॒त्वान् प्रत्ये॒तदा॑ह॒ ममै॒ष रा॒य उप॑ तिष्ठतामि॒ह ||

18.2.38

इ॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै | श॒ते श॒रत्सु॒ नो पु॒रा ||

18.2.39

प्रेमां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै | श॒ते श॒रत्सु॒ नो पु॒रा ||

18.2.40

अपे॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै | श॒ते श॒रत्सु॒ नो पु॒रा ||

18.2.41

वी॒३मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै | श॒ते श॒रत्सु॒ नो पु॒रा ||

18.2.42

निरि॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै | श॒ते श॒रत्सु॒ नो पु॒रा ||

18.2.43

उदि॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै | श॒ते श॒रत्सु॒ नो पु॒रा ||

18.2.44

समि॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै | श॒ते श॒रत्सु॒ नो पु॒रा ||

18.2.45

अमा॑सि॒ मात्रां॒ स्वऽरगा॒मायु॑ष्मान् भूयासम् | यथाप॑रं॒ न मासा॑तै श॒ते श॒रत्सु॒ नो पु॒रा ||

18.2.46

प्रा॒णो अ॑पा॒नो व्या॒न आयु॒श्चक्षु॑र्दृ॒शये॒ सूर्या॑य | अप॑रिपरेण प॒था य॒मरा॑ज्ञः पि॒तॄन् ग॑च्छ ||

18.2.47

ये अग्र॑वः शशमा॒नाः प॑रे॒युर्हि॒त्वा द्वेषां॒स्यन॑पत्यवन्तः | ते द्यामु॒दित्या॑विदन्त लो॒कं नाक॑स्य पृ॒ष्ठे अधि॒ दीध्या॑नाः ||

18.2.48

उ॒द॒न्वती॒ द्यौर॑व॒मा पी॒लुम॒तीति॑ मध्य॒मा | तृ॒तीया॑ ह प्र॒द्यौरिति॒ य॑स्यां पि॒तर॒ आस॑ते ||

18.2.49

ये न॑ पि॒तुः पि॒तरो॑ ये पि॑ताम॒हा य आ॑विवि॒शुरु॒र्व॑१न्तरि॑क्षम् | य आ॑क्षि॒यन्ति॑ पृथि॒वीमु॒त द्यां तेभ्यः॑ पि॒तृभ्यो॒ नम॑सा विधेम ||

18.2.50

इ॒दमिद् वा उ॒ नाप॑रं दि॒वि प॑श्यसि॒ सूर्य॑म् | मा॒ता पु॒त्रं यथा॑ सि॒चाभ्येऽनं भूम ऊर्णुहि ||

18.2.51

इ॒दमिद् वा उ॒ नाप॑रं ज॒रस्य॒न्यदि॒तोऽप॑रम् | जा॒या पति॑मिव॒ वास॑सा॒भ्येऽनं भूम ऊर्णुहि ||

18.2.52

अ॒भि त्वो॑र्णोमि पृथि॒व्या मा॒तुर्वस्त्रे॑ण भ॒द्रया॑ | जी॒वेषु॑ भ॒द्रं तन्मयि॑ स्व॒धा पि॒तृषु॒ सा त्वयि॑ ||

18.2.53

अग्नी॑षोमा॒ पथि॑कृता स्यो॒नं दे॒वेभ्यो॒ रत्नं॑ दधथु॒र्वि लो॒कम् | उप॒ प्रेष्य॑न्तं पू॒षणं॒ यो वहा॑त्यञ्जो॒यानैः॑ प॒थिभि॒स्तत्र॑ गच्छतम् ||

18.2.54

पू॒षा त्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः | स त्वै॒तेभ्यः॒ परि॑ ददत् पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुविद॒त्रिये॑भ्यः ||

18.2.55

आयु॑र्वि॒श्वायुः॒ परि॑ पातु त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् | यत्रास॑ते सु॒कृतो॒ यत्र॒ त ई॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ||

18.2.56

इ॒मौ यु॑नज्मि ते॒ वह्नी॒ असु॑नीताय॒ वोढ॑वे | ताभ्यां॑ य॒मस्य॒ साद॑नं॒ समि॑ती॒श्चाव॑ गच्छतात् ||

18.2.57

ए॒तत् त्वा॒ वासः॑ प्रथ॒मं न्वाग॒न्नपै॒तदू॑ह यदि॒हाबि॑भः पु॒रा | इ॒ष्टा॒पू॒र्तम॑नु॒संक्रा॑म वि॒द्वान् यत्र॑ ते द॒त्तं ब॑हु॒धा विब॑न्धुषु ||

18.2.58

अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ मेद॑सा॒ पीव॑सा च | नेत् त्वा॑ धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो द॒धृग् वि॑ध॒क्षन् प॑री॒ङ्खया॑तै ||

18.2.59

द॒ण्डं हस्ता॑दा॒ददा॑नो ग॒तासोः॑ स॒ह श्रोत्रे॑ण॒ वर्च॑सा॒ बले॑न | अत्रै॒व त्वमि॒ह व॒यं सु॒वीरा॒ विश्वा॒ मृधो॑ अ॒भिमा॑तीर्जयेम ||

18.2.60

धनु॒र्हस्ता॑दा॒ददा॑नो मृ॒तस्य॑ स॒ह क्ष॒त्रेण॒ वर्च॑सा॒ बले॑न | स॒मागृ॑भाय॒ वसु॒ भूरि॑ पु॒ष्टम॒र्वाङ्त्वमेह्युप॑ जीवलो॒कम् ||