Atharvaveda 16.7

१-१३ यमः। दुःष्वप्ननाशनं, उषा। १ पङ्क्तिः, २ साम्नी अनुष्टुप्, ३ आसुरी उष्णिक्, ४ प्राजापत्या गायत्री, ५ आर्ची उष्णिक् ६, ९, ११ साम्नी बृहती, ७ याजुषी गायत्री, ८ प्राजापत्या बृहती, १० साम्नी गायत्री १२ भुरिक् प्राजापत्याऽनुष्टुप्, १३ आसुरी त्रिष्टुप्।

16.7.1

तेनै॑नं विध्या॒म्यभू॑त्यैनं विध्यामि॒ निर्भू॑त्यैनं विध्यामि॒ परा॑भूत्यैनं विध्यामि॒ ग्राह्यै॑नं विध्यामि॒ तम॑सैनं विध्यामि ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

16.7.1

तेनै॑नं विध्या॒म्यभू॑त्यैनं विध्यामि॒ निर्भू॑त्यैनं विध्यामि॒ परा॑भूत्यैनं विध्यामि॒ ग्राह्यै॑नं विध्यामि॒ तम॑सैनं विध्यामि ||

16.7.2

दे॒वाना॑मेनं घो॒रैः क्रू॒रैः प्रै॒षैर॑भि॒प्रेष्या॑मि ||

16.7.3

वै॒श्वा॒न॒रस्यै॑नं॒ दंष्ट्र॑यो॒रपि॑ दधामि ||

16.7.4

ए॒वाने॒वाव॒ सा ग॑रत् ||

16.7.5

यो॒३स्मान् द्वेष्टि॒ तमा॒त्मा द्वे॑ष्टु॒ यं व॒यं द्वि॒ष्मः स आ॒त्मानं॑ द्वेष्टु ||

16.7.6

निर्द्वि॒षन्तं॑ दि॒वो निः पृ॑थि॒व्या निर॒न्तरि॑क्षाद् भजाम ||

16.7.7

सुया॑मंश्चाक्षुष ||

16.7.8

इ॒दम॒हमा॑मुष्याय॒णे॒३मुष्याः॑ पु॒त्रे दु॒ष्वप्न्यं॑ मृजे ||

16.7.9

यद॒दोअ॑दो अ॒भ्यग॑च्छन् यद् दो॒षा यत् पूर्वां॒ रात्रि॑म् ||

16.7.10

यज्जाग्र॑द् यत् सु॒प्तो यद् दिवा॒ यन्नक्त॑म् ||

16.7.11

यदह॑रहरभि॒गच्छा॑मि॒ तस्मा॑देन॒मव॑ दये ||

16.7.12

तं ज॑हि॒ तेन॑ मन्दस्व॒ तस्य॑ पृ॒ष्टीरपि॑ शृणीहि ||

16.7.13

स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु ||