Atharvaveda 16.1

दुःखमोचनम्।

16.1.1

१-१३ अथर्वा | प्रजापतिः (नव पर्यायाः) | १, ३ द्विपदा साम्नी बृहती, २, १० याजुषी त्रिष्टुप्, ४ आसुरी गायत्री, ५, ८ साम्नी पङ्क्तिः (५ द्विपदा), ६ साम्नी अनुष्टुप्, ७ निचृद् विराड् गायत्री, ९ आसुरी पङ्क्तिः, ११ साम्नी उष्णिक्, १२-१३ आर्ची अनुष्टुप् | अति॑सृष्टो अ॒पां वृ॑ष॒भोऽति॑सृष्टा अ॒ग्नयो॑ दि॒व्याः ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

16.1.1

१-१३ अथर्वा | प्रजापतिः (नव पर्यायाः) | १, ३ द्विपदा साम्नी बृहती, २, १० याजुषी त्रिष्टुप्, ४ आसुरी गायत्री, ५, ८ साम्नी पङ्क्तिः (५ द्विपदा), ६ साम्नी अनुष्टुप्, ७ निचृद् विराड् गायत्री, ९ आसुरी पङ्क्तिः, ११ साम्नी उष्णिक्, १२-१३ आर्ची अनुष्टुप् | अति॑सृष्टो अ॒पां वृ॑ष॒भोऽति॑सृष्टा अ॒ग्नयो॑ दि॒व्याः ||

16.1.2

रु॒जन् प॑रिरु॒जन् मृ॒णन् प्र॑मृ॒णन् ||

16.1.3

म्रो॒को म॑नो॒हा ख॒नो नि॑र्दा॒ह आ॑त्म॒दूषि॑स्तनू॒दूषिः॑ ||

16.1.4

इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि ||

16.1.5

तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३ऽस्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ||

16.1.6

अ॒पामग्र॑मसि समु॒द्रं वो॒ऽभ्यव॑सृजामि ||

16.1.7

यो॒३प्स्व॑१ग्निरति॒ तं सृ॑जामि म्रो॒कं ख॒निं त॑नू॒दूषि॑म् ||

16.1.8

यो व॑ आपो॒ऽग्निरा॑वि॒वेश॒ स ए॒ष यद् वो॑ घो॒रं तदे॒तत् ||

16.1.9

इन्द्र॑स्य व इन्द्रि॒येणा॒भि षि॑ञ्चेत् ||

16.1.10

अ॒रि॒प्रा आपो॑ अप॑ रि॒प्रम॒स्मत् ||

16.1.11

प्रास्मदेनो॑ वहन्तु॒ प्र दु॒ष्वप्न्यं॑ वहन्तु ||

16.1.12

शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापः शि॒वया॑ त॒न्वोप॑ स्पृशत॒ त्वचं॑ मे ||

16.1.13

शि॒वान॒ग्नीन॑प्सु॒षदो॑ हवामहे॒ मयि॑ क्ष॒त्रं वर्च॒ आ ध॑त्त देवीः ||