Atharvaveda 15.17

१-१० अथर्वा। अध्यात्मं, व्रात्यः। १, ५ प्राजापत्या उष्णिक्, २, ७ आसुरी अनुष्टुप्, ३ याजुषी पङ्क्तिः,

15.17.1

४ साम्नी उष्णिक्, ६ याजुषी त्रिष्टुप्, ८ त्रिपदा प्रतिष्ठाऽर्ची पङ्क्तिः, ९ द्विपदा साम्नी त्रिष्टुप्, १० साम्नी अनुष्टुप् | तस्य॒ व्रात्य॑स्य | योऽस्य प्रथ॒मो व्या॒नः सेयं भूमिः॑ ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

15.17.1

४ साम्नी उष्णिक्, ६ याजुषी त्रिष्टुप्, ८ त्रिपदा प्रतिष्ठाऽर्ची पङ्क्तिः, ९ द्विपदा साम्नी त्रिष्टुप्, १० साम्नी अनुष्टुप् | तस्य॒ व्रात्य॑स्य | योऽस्य प्रथ॒मो व्या॒नः सेयं भूमिः॑ ||

15.17.2

तस्य॒ व्रात्य॑स्य | योऽस्य द्वि॒तीयो॑ व्या॒नस्तद॒न्तरि॑क्षम् ||

15.17.3

तस्य॒ व्रात्य॑स्य | योऽस्य तृ॒तीयो॑ व्या॒नः सा द्यौः ||

15.17.4

तस्य॒ व्रात्य॑स्य | योऽस्य चतु॒र्थो व्या॒नस्तानि॒ नक्ष॑त्राणि ||

15.17.5

तस्य॒ व्रात्य॑स्य | योऽस्य पञ्च॒मो व्या॒नस्त ऋ॒तवः॑ ||

15.17.6

तस्य॒ व्रात्य॑स्य | योऽस्य ष॒ष्ठो व्या॒नस्त आ॑र्त॒वाः ||

15.17.7

तस्य॒ व्रात्य॑स्य | योऽस्य सप्त॒मो व्या॒नः स सं॑वत्स॒रः ||

15.17.8

तस्य॒ व्रात्य॑स्य | स॒मा॒नमर्थं॒ परि॑ यन्ति दे॒वाः सं॑वत्स॒रं वा ए॒तदृ॒तवो॑ऽनु॒परि॑यन्ति॒ व्रात्यं॑ च ||

15.17.9

तस्य॒ व्रात्य॑स्य | यदा॑दि॒त्यम॑भिसंवि॒शन्त्य॑मावा॒स्यां चै॒व तत् पौ॑र्णमा॒सीं च॑ ||

15.17.10

तस्य॒ व्रात्य॑स्य | एकं॒ तदे॑षाममृत॒त्वमित्याहु॑तिरे॒व ||