Atharvaveda 15.15

११-९ अथर्वा। अध्यात्मं, व्रात्यः। १ दैवी पङ्क्तिः, २ आसुरी बृहती, ३, ४, ७-८ प्राजापत्याऽनुष्टुप्

15.15.1

(४,७-८ भुरिक्), ५-६ द्विपदा साम्नी बृहती, ९ विराड् गायत्री | तस्य॒ व्रात्य॑स्य ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

15.15.1

(४,७-८ भुरिक्), ५-६ द्विपदा साम्नी बृहती, ९ विराड् गायत्री | तस्य॒ व्रात्य॑स्य ||

15.15.2

स॒प्त प्रा॒णाः स॒प्तापा॒नाः स॒प्त व्या॒नाः ||

15.15.3

तस्य॒ व्रात्य॑स्य | योऽस्य प्रथ॒मः प्रा॒ण ऊ॒र्ध्वो नामा॒यं सो अ॒ग्निः ||

15.15.4

तस्य॒ व्रात्य॑स्य | योऽस्य द्वि॒तीयः॑ प्रा॒णः प्रौढो॒ नामा॒सौ स आ॑दि॒त्यः ||

15.15.5

तस्य॒ व्रात्य॑स्य | योऽस्य तृ॒तीयः॑ प्रा॒णो॒३ऽभ्यूऽढो॒ नामा॒सौ स च॒न्द्रमाः॑ ||

15.15.6

तस्य॒ व्रात्य॑स्य | योऽस्य चतु॒र्थः प्रा॒णो वि॒भूर्नामा॒यं स पव॑मानः ||

15.15.7

तस्य॒ व्रात्य॑स्य | योऽस्य पञ्च॒मः प्रा॒णो योनि॒र्नाम॒ ता इ॒मा आपः॑ ||

15.15.8

तस्य॒ व्रात्य॑स्य | योऽस्य ष॒ष्ठः प्रा॒णः प्रि॒यो नाम॒ त इ॒मे प॒शवः॑ ||

15.15.9

तस्य॒ व्रात्य॑स्य | योऽस्य सप्त॒मः प्रा॒णोऽप॑रिमितो॒ नाम॒ ता इ॒माः प्र॒जाः ||