Atharvaveda 15.13

१-१४ अथर्वा। अध्यात्मं, व्रात्यः। १ साम्नी उष्णिक्, २ ६ प्राजापत्याऽनुष्टुप्, ३, ५, ७ आसुरी गायत्री,

15.13.1

४, ८ साम्नी बृहती, ९ द्विपदा निचृद्गायत्री, १० द्विपदा विरीड् गायत्री, ११ प्राजापत्या पङ्क्तिः, १२ आसुरी जगती, १३ सतः पङ्क्तिः, १४ अक्षरपङ्क्तिः | तद् यस्यै॒वं वि॒द्वान् व्रात्य॒ एकां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

15.13.1

४, ८ साम्नी बृहती, ९ द्विपदा निचृद्गायत्री, १० द्विपदा विरीड् गायत्री, ११ प्राजापत्या पङ्क्तिः, १२ आसुरी जगती, १३ सतः पङ्क्तिः, १४ अक्षरपङ्क्तिः | तद् यस्यै॒वं वि॒द्वान् व्रात्य॒ एकां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ||

15.13.2

ये पृ॑थि॒व्यां पुन्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ||

15.13.3

तद् यस्यै॒वं वि॒द्वान् व्रात्यो॑ द्वि॒तीयां॑ रात्रि॒मतिथि॑र्गृ॒हे वस॑ति ||

15.13.4

ये॒३न्तरि॑क्षे॒ पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ||

15.13.5

तद् यस्यै॒वं वि॒द्वान् व्रात्य॑स्तृ॒तीयां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ||

15.13.6

ये दि॒वि पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ||

15.13.7

तद् यस्यै॒वं वि॒द्वान् व्रात्य॑श्चतु॒र्थीं रात्रि॒मति॑थिर्गृ॒हे वस॑ति ||

15.13.8

ये पुण्या॑नां॒ पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ||

15.13.9

तद् यस्यै॒वं वि॒द्वान् व्रात्योऽप॑रिमिता॒ रात्री॒रति॑थिर्गृ॒हे वस॑ति ||

15.13.10

य ए॒वाप॑रिमिताः॒ पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ||

15.13.11

अथ॒ यस्याव्रा॑त्यो व्रात्यब्रु॒वो ना॑मबिभ्र॒त्यति॑थिर्गृ॒हाना॒गच्छे॑त् ||

15.13.12

कर्षे॑देनं॒ न चै॑नं कर्षे॑त् ||

15.13.13

अ॒स्यै दे॒वता॑या उद॒कं या॑चामी॒मां दे॒वतां॑ वासय इ॒मामि॒मां दे॒वतां॒ परि॑ वेवे॒ष्मीत्ये॑नं॒ परि॑ वेविष्यात् ||

15.13.14

तस्या॑मे॒वास्य॒ तद् दे॒वता॑यां हु॒तं भ॑वति॒ य ए॒वं वेद॑ ||