Atharvaveda 15.11

१-११ अथर्वा। अध्यात्मं, व्रात्यः। १ दैवी पङ्क्तिः, २ द्विपदा पूर्वात्रिष्टुबतिशक्वरी,

15.11.1

३-६, ८, १० निचृदाऽर्ची बृहती (१० भुरिक्), ७,९ द्विपदा प्राजापत्या बृहती, ११ द्विपदाऽर्च्यनुष्टुप् | तद् यस्यै॒वं वि॒द्वान् व्रात्योऽति॑थिर्गृ॒हाना॒गछे॑त् ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

15.11.1

३-६, ८, १० निचृदाऽर्ची बृहती (१० भुरिक्), ७,९ द्विपदा प्राजापत्या बृहती, ११ द्विपदाऽर्च्यनुष्टुप् | तद् यस्यै॒वं वि॒द्वान् व्रात्योऽति॑थिर्गृ॒हाना॒गछे॑त् ||

15.11.2

स्व॒यमे॑नमभ्यु॒देत्य॑ ब्रूया॒द् व्रात्य॒ क्वाऽवात्सी॒र्व्रात्यो॑द॒कं व्रात्य॑ त॒र्पय॑न्तु॒ व्रात्य॒ यथा॑ ते प्रि॒यं तथा॑स्तु॒ व्रात्य॒ यथा॑ ते॒ वश॒स्तथा॑स्तु॒ व्रात्य॒ यथा॑ ते निका॒मस्तथा॒स्त्विति॑ ||

15.11.3

यदे॑न॒माह॒ व्रात्य॒ क्वाऽवात्सी॒रिति॑ प॒थ ए॒व तेन॑ देव॒याना॒नव॑ रुन्द्धे ||

15.11.4

यदे॑न॒माह॒ व्रात्यो॑द॒कमित्य॒प ए॒व तेनाव॑ रुन्द्धे ||

15.11.5

यदे॑न॒माह॒ व्रात्य॑ त॒र्पय॒न्त्विति॑ प्रा॒णमे॒व तेन॒ वर्षी॑यांसं कुरुते ||

15.11.6

यदे॑न॒माह॒ व्रात्य॒ यथा॑ ते प्रि॒यं तथा॒स्त्विति॑ प्रि॒यमे॒व तेनाव॑ रुन्द्धे ||

15.11.7

ऐनं॑ प्रि॒यं ग॑च्छति प्रि॒यः प्रि॒यस्य॑ भवति॒ य ए॒वं वेद॑ ||

15.11.8

यदे॑न॒माह॒ व्रात्य॒ यथा॑ ते॒ वश॒स्तथा॒स्त्विति॒ वश॑मे॒व तेनाव॑ रुन्द्धे ||

15.11.9

ऐनं॒ वशो॑ ग॑च्छति व॒शी व॒शिनां॑ भवति॒ य ए॒वं वेद॑ ||

15.11.10

यदे॑न॒माह॒ व्रात्य॒ यथा॑ ते निका॒मस्तथा॒स्त्विति॑ निका॒ममे॒व तेनाव॑ रुन्द्धे ||

15.11.11

ऐनं॑ निका॒मो ग॑च्छति निका॒मे नि॑का॒मस्य॑ भवति॒ य ए॒वं वेद॑ ||