13.4.1
(१-१३ प्रथमः पर्यायः | ) १-११ प्राजापत्याऽनुष्टुप्; १२ विराड् गायत्री; १३आसुरी उष्णिक् | स ए॑ति सवि॒ता स्वऽर्दि॒वस्पृ॒ष्ठेऽव॒चाक॑शत् ||
अध्यात्मम्।
13.4.1
(१-१३ प्रथमः पर्यायः | ) १-११ प्राजापत्याऽनुष्टुप्; १२ विराड् गायत्री; १३आसुरी उष्णिक् | स ए॑ति सवि॒ता स्वऽर्दि॒वस्पृ॒ष्ठेऽव॒चाक॑शत् ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
13.4.1
(१-१३ प्रथमः पर्यायः | ) १-११ प्राजापत्याऽनुष्टुप्; १२ विराड् गायत्री; १३आसुरी उष्णिक् | स ए॑ति सवि॒ता स्वऽर्दि॒वस्पृ॒ष्ठेऽव॒चाक॑शत् ||
13.4.2
र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ||
13.4.3
स धा॒ता स वि॑ध॒र्ता स वा॒युर्नभ॒ उच्छ्रि॑तम् | र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ||
13.4.4
सोऽर्य॒मा स वरु॑णः॒ स रु॒द्रः स म॑हादे॒वः | र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ||
13.4.5
सो अ॒ग्निः स उ॒ सूर्यः॒ स उ॑ ए॒व म॑हाय॒मः | र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ||
13.4.6
तं व॒त्सा उप॑ तिष्ठ॒न्त्येक॑शीर्षाणो यु॒ता दश॑ | र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ||
13.4.7
प॒श्चात् प्राञ्च॒ आ त॑न्वन्ति॒ यदु॒देति॒ वि भा॑सति | र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ||
13.4.8
तस्यै॒ष मारु॑तो ग॒णः स ए॑ति शि॒क्याकृ॑तः ||
13.4.9
र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ||
13.4.10
तस्ये॒मे नव॒ कोशा॑ विष्ट॒म्भा न॑व॒धा हि॒ताः ||
13.4.11
स प्र॒जाभ्यो॒ वि प॑श्यति॒ यच्च॑ प्रा॒णति॒ यच्च॒ न ||
13.4.12
तमि॒दं निग॑तं॒ सहः॒ स ए॒ष एक॑ एक॒वृदेक॑ ए॒व ||
13.4.13
ए॒ते अ॑स्मिन् दे॒वा ए॑क॒वृतो॑ भवन्ति ||