12.4.1
१-५३ कश्यपः | वशा | अनुष्टुप्, ७ भुरिक्, २० विराट्, ३१ उष्णिग्बृहतीगर्भा, ४२ बृहतीगर्भा | ददा॒मीत्ये॒व ब्रू॑या॒दनु॑ चैना॒मभु॑त्सत | व॒शां ब्र॒ह्मभ्यो॒ याच॑द्भ्य॒स्तत् प्र॒जाव॒दप॑त्यवत् ||
वशा गौः।
12.4.1
१-५३ कश्यपः | वशा | अनुष्टुप्, ७ भुरिक्, २० विराट्, ३१ उष्णिग्बृहतीगर्भा, ४२ बृहतीगर्भा | ददा॒मीत्ये॒व ब्रू॑या॒दनु॑ चैना॒मभु॑त्सत | व॒शां ब्र॒ह्मभ्यो॒ याच॑द्भ्य॒स्तत् प्र॒जाव॒दप॑त्यवत् ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
12.4.1
१-५३ कश्यपः | वशा | अनुष्टुप्, ७ भुरिक्, २० विराट्, ३१ उष्णिग्बृहतीगर्भा, ४२ बृहतीगर्भा | ददा॒मीत्ये॒व ब्रू॑या॒दनु॑ चैना॒मभु॑त्सत | व॒शां ब्र॒ह्मभ्यो॒ याच॑द्भ्य॒स्तत् प्र॒जाव॒दप॑त्यवत् ||
12.4.2
प्र॒जया॒ स वि क्री॑णीते प॒शुभि॒श्चोप॑ दस्यति | य आ॑र्षे॒येभ्यो॒ याच॑द्भ्यो दे॒वानां॒ गां न दित्स॑ति ||
12.4.3
कू॒टया॑स्य॒ सं शी॑र्यन्ते श्लो॒णया॑ का॒टम॑र्दति | ब॒ण्डया॑ दह्यन्ते गृ॒हाः का॒णया॑ दीयते॒ स्वम् ||
12.4.4
वि॒लो॒हि॒तो अ॑धि॒ष्ठाना॑च्छ॒क्नो वि॑न्दति॒ गोप॑तिम् | तथा॑ व॒शायाः॒ संवि॑द्यं दुरद॒भ्ना ह्यु॑१च्यसे॑ ||
12.4.5
प॒दोर॑स्या अधि॒ष्ठाना॑द् वि॒क्लिन्दु॒र्नाम॑ विन्दति | अ॒ना॒म॒नात् सं शी॑र्यन्ते॒ या मुखे॑नोप॒जिघ्र॑ति ||
12.4.6
यो अ॑स्याः॒ कर्णा॑वास्कु॒नोत्या स दे॒वेषु॑ वृश्चते | लक्ष्म॑ कुर्व॒ इति॒ मन्य॑ते॒ कनी॑यः कृणुते॒ स्वम् ||
12.4.7
यद॑स्याः॒ कस्मै॑ चि॒द् भोगा॑य॒ बाला॒न् कश्चि॑त् प्रकृ॒न्तति॑ | ततः॑ किशो॒रा म्रि॑यन्ते व॒त्सांश्च॒ घातु॑को॒ वृकः॑ ||
12.4.8
यद॑स्या गोप॑तौ स॒त्या लोम॒ ध्वाङ्क्षो॒ अजी॑हिडत् | ततः॑ कुमा॒रा म्रि॑यन्ते॒ यक्ष्मो॑ विन्दत्यनाम॒नात् ||
12.4.9
यद॑स्याः॒ पल्पू॑लनं॒ शकृ॑द् दा॒सी स॒मस्य॑ति | ततोऽप॑रूपं जायते॒ तस्मा॒दव्ये॑ष्य॒देन॑सः ||
12.4.10
जाय॑माना॒भि जा॑यते दे॒वान्त्सब्रा॑ह्मणान् व॒शा | तस्मा॑द् ब्र॒ह्मभ्यो॒ देयै॒षा तदा॑हुः॒ स्वस्य॒ गोप॑नम् ||
12.4.11
य ए॑नां व॒निमा॒यन्ति॒ तेषां॑ दे॒वकृ॑ता व॒शा | ब्र॒ह्म॒ज्येयं॒ तद॑ब्रुव॒न् य ए॑नां निप्रिया॒यते॑ ||
12.4.12
य आ॑र्षे॒येभ्यो॒ याच॑द्भ्यो दे॒वानां॒ गां न दित्स॑ति | आ स दे॒वेषु॑ वृश्चते ब्राह्म॒णानां॑ च म॒न्यवे॑ ||
12.4.13
यो अ॑स्य॒ स्याद् व॑शाभो॒गो अ॒न्यामि॑च्छेत॒ तर्हि॒ सः | हिंस्ते॒ अद॑त्ता॒ पुरु॑षं याचि॒तां च॒ न दित्स॑ति ||
12.4.14
यथा॑ शेव॒धिर्निहि॑तो ब्राह्म॒णानां॒ तथा॑ व॒शा | तामे॒तद॒च्छाय॑न्ति यस्मि॒न् कस्मिंश्च॒ जाय॑ते ||
12.4.15
स्वमे॒तद॒च्छाय॑न्ति॒ यद् व॒शां ब्रा॑ह्म॒णा अ॒भि | यथै॑नान॒न्यस्मि॑न् जिनी॒यादे॒वास्या॑ नि॒रोध॑नम् ||
12.4.16
चरे॑दे॒वा त्रै॑हाय॒णा दवि॑ज्ञातगदा स॒ती | व॒शां च॑ वि॒द्यान्ना॑रद ब्राह्म॒णास्तर्ह्ये॒ष्याः ||
12.4.17
य ए॑ना॒मव॑शा॒माह॑ दे॒वानां॒ निहि॑तं नि॒धिम् | उ॒भौ तस्मै॑ भवाश॒र्वौ प॑रि॒क्रम्येषु॑मस्यतः ||
12.4.18
यो अ॑स्या॒ ऊधो॒ न वेदाथो॑ अस्या॒ स्तना॑नु॒त | उ॒भये॑नै॒वास्मै॑ दुहे॒ दातुं॒ चे दश॑कद् व॒शाम् ||
12.4.19
दु॒र॒द॒भ्नैन॒मा श॑ये याचि॒तां च॒ न दित्स॑ति | नास्मै॒ कामाः॒ समृ॑ध्यन्ते॒ यामद॑त्त्वा॒ चिकी॑र्षति ||
12.4.20
दे॒वा व॒शाम॑याच॒न् मुखं॑ कृ॒त्वा ब्राह्म॑णम् | तेषां॒ सर्वे॑षा॒मद॑द॒द्धेडं॒ न्येऽति॒ मानु॑षः ||
12.4.21
हेडं॑ पशू॒नां न्येऽति ब्राह्म॒णेभ्योऽद॑दद् व॒शाम् | दे॒वानां॒ निहि॑तं भा॒गं मर्त्य॒श्चेन्नि॑प्रिया॒यते॑ ||
12.4.22
यद॒न्ये श॒तं याचे॑युर्ब्राह्म॒णा गोप॑तिं व॒शाम् | अथै॑नां दे॒वा अ॑ब्रुवन्ने॒वं ह॑ वि॒दुषो॑ व॒शा ||
12.4.23
य ए॒वं वि॒दुषेऽद॒त्त्वाथा॒न्येभ्यो॒ दद॑द् व॒शाम् | दु॒र्गा तस्मा॑ अधि॒ष्ठाने॑ पृथि॒वी स॒हदे॑वता ||
12.4.24
दे॒वा व॒शाम॑याच॒न् यस्मि॒न्नग्रे॒ अजा॑यत | तामे॒तां वि॑द्या॒न्नार॑दः स॒ह दे॒वैरुदा॑जत ||
12.4.25
अ॒न॒प॒त्यमल्प॑पशुं व॒शा कृ॑णोति॒ पूरु॑षम् | ब्रा॒ह्म॒णैश्च॑ याचि॒तामथै॑नां निप्रिया॒यते॑ ||
12.4.26
अ॒ग्नीषोमा॑भ्यां॒ कामा॑य मि॒त्राय॒ वरु॑णाय च | तेभ्यो॑ याचन्ति ब्राह्म॒णास्तेष्वा वृ॑श्च॒तेऽद॑दत् ||
12.4.27
याव॑दस्या॒ गोप॑ति॒र्नोप॑शृणु॒यादृचः॑ स्व॒यम् | चरे॑दस्य॒ ताव॒द् गोषु॒ नास्य॑ श्रु॒त्वा गृ॒हे व॑सेत् ||
12.4.28
यो अ॑स्या॒ ऋच॑ उप॒श्रुत्याथ॒ गोष्वची॑चरत् | आयु॑श्च॒ तस्य॒ भूतिं॑ च दे॒वा वृ॑श्चन्ति हीडि॒ताः ||
12.4.29
व॒शा चर॑न्ती बहु॒धा दे॒वानां॒ निहि॑तो नि॒धिः | आ॒विष्कृ॑णुष्व रू॒पाणि॑ य॒दा स्थाम॒ जिघां॑सति ||
12.4.30
आ॒विरा॒त्मानं॑ कृणुते य॒दा स्थाम॒ जिघांसति | अथो॑ ह ब्र॒ह्मभ्यो॑ व॒शा या॒ञ्च्याय॑ कृणुते॒ मनः॑ ||
12.4.31
मन॑सा॒ सं क॑ल्पयति॒ तद् दे॒वां अपि॑ गच्छति | ततो॑ ह ब्र॒ह्माणो॑ व॒शामु॑प॒प्रय॑न्ति॒ याचि॑तुम् ||
12.4.32
स्व॒धा॒का॒रेण॑ पि॒तृभ्यो॑ य॒ज्ञेन॑ दे॒वता॑भ्यः | दाने॑न राज॒न्योऽ व॒शाया॑ मा॒तुर्हेडं॒ न ग॑च्छति ||
12.4.33
व॒शा मा॒ता रा॑ज॒न्यऽस्य॒ तथा॒ संभू॑तमग्र॒शः | तस्या॑ आहु॒रन॑र्पणं॒ यद् ब्र॒ह्मभ्यः॑ प्रदी॒यते॑ ||
12.4.34
यथाज्यं॒ प्रगृ॑हीतमालु॒म्पेत् स्रु॒चो अ॒ग्नये॑ | ए॒वा ह॑ ब्र॒ह्मभ्यो॑ व॒शा म॒ग्नय॒ आ वृ॑श्च॒तेऽद॑दत् ||
12.4.35
पु॒रो॒डाश॑वत्सा सु॒दुघा॑ लो॒के॑ऽस्मा॒ उप॑ तिष्ठति | सास्मै॒ सर्वा॒न् कामा॑न् व॒शा प्र॑द॒दुषे॑ दुहे ||
12.4.36
सर्वा॒न् कामा॑न् यम॒राज्ये॑ व॒शा प्र॑द॒दुषे॑ दुहे | अथा॑हु॒र्नार॑कं लो॒कं नि॑रुन्धा॒नस्य॑ याचि॒ताम् ||
12.4.37
प्र॒वी॒यमा॑ना चरति क्रु॒द्धा गोप॑तये व॒शा | वे॒हतं मा॒ मन्य॑मानो मृ॒त्योः पाशे॑षु बध्यताम् ||
12.4.38
यो वे॒हतं॒ मन्य॑मानो॒ऽमा च॒ पच॑ते व॒शाम् | अप्य॑स्य पु॒त्रान् पौत्रां॑श्च या॒चय॑ते॒ बृह॒स्पतिः॑ ||
12.4.39
म॒हदे॒षाव॑ तपति॒ चर॑न्ती॒ गोषु॒ गौरपि॑ | अथो॑ ह॒ गोप॑तये व॒शाद॑दुषे वि॒षं दु॑हे ||
12.4.40
प्रि॒यं प॑शू॒नां भ॑वति॒ यद् ब्र॒ह्मभ्यः॑ प्रदी॒यते॑ | अथो॑ व॒शाया॒स्तत् प्रि॒यं यद् दे॑व॒त्रा ह॒विः स्यात् ||
12.4.41
या व॒शा उ॒दक॑ल्पयन् दे॒वा य॒ज्ञादु॒देत्य॑ | तासां॑ विलि॒प्त्यं भी॒मामु॒दाकु॑रुत नार॒दः ||
12.4.42
तां दे॒वा अ॑मीमांसन्त व॒शेया३मव॒शेति॑ | ताम॑ब्रवीन्नार॒द ए॒षा व॒शानां॑ व॒शत॒मेति॑ ||
12.4.43
कति॒ नु व॒शा ना॑रद॒ यास्त्वं वेत्थ मनुष्य॒जाः | तास्त्वा॑ पृच्छामि वि॒द्वांसं॒ कस्या॒ नाश्नी॑या॒दब्रा॑ह्मणः ||
12.4.44
वि॒लि॒प्त्या बृ॑हस्पते॒ या च॑ सू॒तव॑शा व॒शा | तस्या॒ नाश्नी॑या॒दब्रा॑ह्मणो॒ या आ॒शंसे॑त॒ भूत्या॑म् ||
12.4.45
नम॑स्ते अस्तु नारदानु॒ष्ठु वि॒दुषे॑ व॒शा | क॒त॒मासां॑ भी॒मत॑मा॒ यामद॑त्त्वा परा॒भवे॑त् ||
12.4.46
वि॒लि॒प्ती या बृ॑हस्प॒तेऽथो॑ सू॒तव॑शा व॒शा | तस्या॒ नाश्नी॑या॒दब्रा॑ह्मणो॒ य आ॒शंसे॑त॒ भूत्या॑म् ||
12.4.47
त्रीणि॒ वै व॑शाजा॒तानि॑ विलि॒प्ती सू॒तव॑शा व॒शा | ताः प्र यच्छेद् ब्र॒ह्मभ्यः॒ सोऽनाव्र॒स्कः प्र॒जाप॑तौ ||
12.4.48
ए॒तद् वो॑ ब्राह्मणा ह॒विरिति॑ मन्वीत याचि॒तः | व॒शां चेदे॑नं॒ याचे॑यु॒र्या भी॒माद॑दुषो गृ॒हे ||
12.4.49
दे॒वा व॒शां पर्य॑वद॒न् न नो॑ऽदा॒दिति॑ हीडि॒ताः | ए॒ताभि॑रृ॒ग्भिर्भे॒दं तस्मा॒द् वै स परा॑भवत् ||
12.4.50
उ॒तैनां॑ भे॒दो नाद॑दाद् व॒शामिन्द्रे॑ण याचि॒तः | तस्मा॒त् तं दे॒वा आग॒सोऽवृ॑श्चन्नहमुत्त॒रे ||
12.4.51
ये व॒शाया॒ अदा॑नाय॒ वद॑न्ति परिरा॒पिणः॑ | इन्द्र॑स्य म॒न्यवे॑ जा॒ल्मा आ वृ॑श्चन्ते॒ अचि॑त्त्या ||
12.4.52
ये गोप॑तिं परा॒णीयाथा॒हुर्मा द॑दा॒ इति॑ | रु॒द्रस्या॒स्तां ते हे॒तिं परि॑ य॒न्त्यचि॑त्त्या ||
12.4.53
यदि॑ हु॒तं यद्यहु॑ताम॒मा च॒ पच॑ते व॒शाम् | दे॒वान्त्सब्रा॑ह्मणानृ॒त्वा जि॒ह्मो लो॒कान्निरृ॑च्छति ||