Atharvaveda 12.2

१-५५ भृगुः। अग्निः, मन्त्रोक्ताः, २१-३३ मृत्युः। त्रिष्टुप्, २, ५, १२-२०, ३४-३६, ३८-४१- ४३, ५१, ५४ अनुष्टुप्

12.2.1

(१६ ककुम्मती पराबृहती, १८ निचृत् ४० पुरस्तात् ककुम्मती), ३ आस्तारपङ्क्तिः, ६ भुरिगार्षी पङ्क्तिः, ७, ४५ जगती, ८, ४८-४९ भुरिक्, ९ अनुष्टुब्गर्भा विपरीतपादलक्ष्मा पङ्क्तिः, ३७ पुरस्ताद्बृहती, ४२ त्रिपदा एकावसाना भुरिगार्ची गायत्री, ४४ एकावसाना द्विपदाऽर्ची बृहती, ४६ एकावसाना द्विपदा साम्नी त्रिष्टुप्, ४७ पञ्चपदा बार्हतवैराजगर्भा जगती, ५० उपरिष्टाद्विराड् बृहती ५२ पुरस्ताद्विराड् बृहती, ५५ बृहतीगर्भा | न॒डमा रो॑ह॒ न ते॒ अत्र॑ लो॒क इ॒दं सीसं॑ भाग॒धेयं॑ त॒ एहि॑ | यो गोषु॒ यक्ष्मः॒ पुरु॑षेषु॒ यक्ष्म॒स्तेन॒ त्वं सा॒कम॑ध॒राङ् परे॑हि ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

12.2.1

(१६ ककुम्मती पराबृहती, १८ निचृत् ४० पुरस्तात् ककुम्मती), ३ आस्तारपङ्क्तिः, ६ भुरिगार्षी पङ्क्तिः, ७, ४५ जगती, ८, ४८-४९ भुरिक्, ९ अनुष्टुब्गर्भा विपरीतपादलक्ष्मा पङ्क्तिः, ३७ पुरस्ताद्बृहती, ४२ त्रिपदा एकावसाना भुरिगार्ची गायत्री, ४४ एकावसाना द्विपदाऽर्ची बृहती, ४६ एकावसाना द्विपदा साम्नी त्रिष्टुप्, ४७ पञ्चपदा बार्हतवैराजगर्भा जगती, ५० उपरिष्टाद्विराड् बृहती ५२ पुरस्ताद्विराड् बृहती, ५५ बृहतीगर्भा | न॒डमा रो॑ह॒ न ते॒ अत्र॑ लो॒क इ॒दं सीसं॑ भाग॒धेयं॑ त॒ एहि॑ | यो गोषु॒ यक्ष्मः॒ पुरु॑षेषु॒ यक्ष्म॒स्तेन॒ त्वं सा॒कम॑ध॒राङ् परे॑हि ||

12.2.2

अ॒घ॒शं॒स॒दुः॒शं॒साभ्यां॑ क॒रेणा॑नुक॒रेण॑ च | यक्ष्मं॑ च॒ सर्वं॒ तेने॒तो मृ॒त्युं च॒ निर॑जामसि ||

12.2.3

निरि॒तो मृ॒त्युं निरृ॑तिं॒ निररा॑तिमजामसि | यो नो॒ द्वेष्टि॒ तम॑द्ध्यग्ने अक्रव्या॒द् यमु॑ द्वि॒ष्मस्तमु॑ ते॒ प्र सु॑वामसि ||

12.2.4

यद्य॒ग्निः क्र॒व्याद् यदि॑ वा व्या॒घ्र इ॒मं गो॒ष्ठं प्र॑वि॒वेशान्यो॑काः | तं माषा॑ज्यं कृ॒त्वा प्र हि॑णोमि दू॒रं स ग॑च्छत्वप्सु॒षदोऽप्य॒ग्नीन् ||

12.2.5

यत् त्वा॑ क्रु॒द्धाः प्र॑च॒क्रुर्म॒न्युना॒ पुरु॑षे मृ॒ते | सु॒कल्प॑मग्ने॒ तत् त्व॒या पुन॒स्त्वोद् दी॑पयामसि ||

12.2.6

पुन॑स्त्वादि॒त्या रु॒द्रा वस॑वः॒ पुन॑र्ब्र॒ह्मा वसु॑नीतिरग्ने | पुन॑स्त्वा॒ ब्रह्म॑ण॒स्पति॒राधा॑द् दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ||

12.2.7

यो अ॒ग्निः क्र॒व्यात् प्र॑वि॒वेश॑ नो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसम् | तं ह॑रामि पितृय॒ज्ञाय॑ दू॒रं स घ॒र्ममि॑न्धां पर॒मे स॒धस्थे॑ ||

12.2.8

क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा॑ज्ञो गच्छतु रिप्रवा॒हः | इ॒हायमित॑रो जा॒तवे॑दा दे॒वो दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ||

12.2.9

क्र॒व्याद॑म॒ग्निमि॑षि॒तो ह॑रामि॒ जना॑न् दृं॒हन्तं॒ वज्रे॑ण मृ॒त्युम् | नि तं शा॑स्मि॒ गार्ह॑पत्येन वि॒द्वान् पि॑तृ॒णां लो॒केऽपि॑ भा॒गो अ॑स्तु ||

12.2.10

क्र॒व्याद॑म॒ग्निं श॑शमा॒नमु॒क्थ्यं॑१ हि॑णोमि प॒थिभिः॑ पितृ॒याणैः॑ | मा दे॑व॒यानैः॒ पुन॒रा गा॒ अत्रै॒वैधि॑ पि॒तृषु॑ जागृहि॒ त्वम् ||

12.2.11

समि॑न्धते॒ संक॑सुकं स्व॒स्तये॑ शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः | जहा॑ति रि॒प्रमत्येन॑ एति॒ समि॑द्धो अ॒ग्निः सु॒पुना॑ पुनाति ||

12.2.12

दे॒वो अ॒ग्निः संक॑सुको दि॒वस्पृ॒ष्ठान्यारु॑हत् | मु॒च्यमा॑नो॒ निरेण॒सोऽमो॑ग॒स्मां अश॑स्त्याः ||

12.2.13

अ॒स्मिन् व॒यं संक॑सुके अ॒ग्नौ रि॒प्राणि॑ मृज्महे | अभू॑म य॒ज्ञियाः॑ शु॒द्धाः प्र ण॒ आयूं॑षि तारिषत् ||

12.2.14

संक॑सुको॒ विक॑सुको निरृ॒थो यश्च॑ निस्व॒रः | ते ते॒ यक्ष्मं॒ सवे॑दसो दू॒राद् दू॒रम॑नीनशन् ||

12.2.15

यो नो॒ अश्वे॑षु वी॒रेषु॒ यो नो॒ गोष्व॑जा॒विषु॑ | क्र॒व्यादं॒ निर्णु॑दामसि॒ यो अ॒ग्निर्ज॑न॒योप॑नः ||

12.2.16

अन्ये॑भ्यस्त्वा॒ पुरु॑षेभ्यो॒ गोभ्यो॒ अश्वे॑भ्यस्त्वा | निः क्र॒व्यादं॑ नुदामसि॒ यो अ॒ग्निर्जी॑वित॒योप॑नः ||

12.2.17

यस्मि॑न् दे॒वा अमृ॑जत॒ यस्मि॑न् मनु॒ष्याऽ उ॒त | तस्मि॑न् घृत॒स्तावो॑ मृ॒ष्ट्वा त्वम॑ग्ने॒ दिवं॑ रुह ||

12.2.18

समि॑द्धो अग्न आहुत॒ स नो॒ माभ्यप॑क्रमीः | अत्रै॒व दी॑दिहि॒ द्यवि॒ ज्योक् च॒ सूर्यं॑ दृ॒शे ||

12.2.19

सीसे॑ मृड्ढ्वं न॒डे मृ॑ड्ढ्वम॒ग्नौ संक॑सुके च॒ यत् | अथो॒ अव्यां॑ रा॒मायां॑ शी॒र्षक्तिमु॑प॒बर्ह॑णे ||

12.2.20

सीसे॒ मलं॑ सादयि॒त्वा शी॑र्ष॒क्तिमु॑प॒बर्ह॑णे | अव्या॒मसि॑क्न्यां मृ॒ष्ट्वा शु॒द्धा भ॑वत य॒ज्ञियाः॑ ||

12.2.21

परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्त॑ ए॒ष इत॑रो देव॒याना॑त् | चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमी॒हेमे वी॒रा ब॒हवो॑ भवन्तु ||

12.2.22

इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू॑द् भ॒द्रा दे॒वहु॑तिर्नो अ॒द्य | प्राञ्चो॑ अगाम नृ॒तये॒ हसा॑य सु॒वीरा॑सो वि॒दथ॒मा व॑देम ||

12.2.23

इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम् | श॒तं जीव॑न्तः श॒रदः॑ पुरू॒चीस्ति॒रो मृ॒त्युं द॑धतां॒ पर्व॑तेन ||

12.2.24

आ रो॑ह॒तायु॑र्ज॒रसं॑ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ स्थ | तान् व॒स्त्वष्टा॑ सु॒जनि॑मा स॒जोषाः॒ सर्व॒मायु॑र्नयतु॒ जीव॑नाय ||

12.2.25

यथाहा॑न्यनुपूर्वं भव॑न्ति॒ यथ॒र्तव॑ ऋ॒तुभि॒र्यन्ति॑ सा॒कम् | यथा॒ न पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूं॑षि कल्पयै॒षाम् ||

12.2.26

अश्म॑न्वती रीयते॒ सं र॑भध्वं वी॒रय॑ध्वं॒ प्र त॑रता सखायः | अत्रा॑ जहीत॒ ये अस॑न् दु॒रेवा॑ अनमी॒वानुत्त॑रेमा॒भि वाजा॑न् ||

12.2.27

उत् ति॑ष्ठता॒ प्र त॑रता सखा॒योऽश्म॑न्वती न॒दी स्य॑न्दत इ॒यम् | अत्रा॑ जहीत॒ ये अस॒न्नशि॑वाः शि॒वान्त्स्यो॒नानुत्त॑रेमा॒भि वाजा॑न् ||

12.2.28

वै॒श्व॒दे॒वीं वर्च॑स॒ आ र॑भध्वं शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः | अ॒ति॒क्राम॑न्तो दुरि॒ता प॒दानि॑ श॒तं हिमाः॒ सर्व॑वीरा मदेम ||

12.2.29

उ॒दी॒चीनैः॑ प॒थिभि॑र्वायु॒मद्भि॑रति॒क्राम॒न्तोऽव॑रान् प॑रेभिः | त्रिः स॒प्त कृत्व॒ ऋष॑यः॒ परे॑ता मृ॒त्युं प्रत्यौ॑हन् पद॒योप॑नेन ||

12.2.30

मृ॒त्योः प॒दं यो॒पय॑न्त॒ एत॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः | आसी॑ना मृ॒त्युं नु॑दता स॒धस्थेऽथ॑ जी॒वासो॑ वि॒दथ॒मा व॑देम ||

12.2.31

इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं स्पृ॑शन्ताम् | अ॒न॒श्रवो॑ अनमी॒वाः सु॒रत्ना॒ आ रो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ ||

12.2.32

व्याक॑रोमि ह॒विषा॒हमे॒तौ तौ ब्रह्म॑णा॒ व्य॑१हं क॑ल्पयामि | स्व॒धां पि॒तृभ्यो॑ अ॒जरां॑ कृ॒णोमि॑ दी॒र्घेणायु॑षा॒ समि॒मान्त्सृ॑जामि ||

12.2.33

यो नो॑ अ॒ग्निः पि॑तरो हृ॒त्स्व॑१न्तरा॑वि॒वेशा॒मृतो॒ मर्त्ये॑षु | मय्य॒हं तं परि॑ गृह्णामि दे॒वं मा सो अ॒स्मान् द्वि॑क्षत॒ मा व॒यं तम् ||

12.2.34

अ॒पा॒वृत्य॒ गार्ह॑पत्यात् क्र॒व्यादा॒ प्रेत॑ दक्षि॒णा | प्रि॒यं पि॒तृभ्य॑ आ॒त्मने॑ ब्र॒ह्मभ्यः॑ कृणुता प्रि॒यम् ||

12.2.35

द्वि॒भा॒ग॒ध॒नमा॒दाय॒ प्र क्षि॑णा॒त्यव॑र्त्या | अ॒ग्निः पु॒त्रस्य॑ ज्ये॒ष्ठस्य॒ यः क्र॒व्यादनि॑राहितः ||

12.2.36

यत् कृ॒षते॒ यद् व॑नु॒ते यच्च॑ व॒स्नेन॑ वि॒न्दते॑ | सर्वं॒ मर्त्य॑स्य॒ तन्नास्ति॑ क्र॒व्याच्चेदनि॑राहितः ||

12.2.37

अ॒य॒ज्ञि॒यो ह॒तव॑र्चा भवति॒ नैने॑न ह॒विरत्त॑वे | छि॒नत्ति॑ कृ॒ष्या गोर्धना॒द् यं क्र॒व्याद॑नु॒वर्त॑ते ||

12.2.38

मुहु॒र्गृध्यैः॒ प्र व॑द॒त्यार्तिं मर्त्यो॒ नीत्य॑ | क्र॒व्याद् यान॒ग्निर॑न्ति॒काद॑नुवि॒द्वान् वि॒ताव॑ति ||

12.2.39

ग्राह्या॑ गृ॒हाः सं सृ॑ज्यन्ते स्त्रि॒या यन्म्रि॒यते॒ पतिः॑ | ब्र॒ह्मैव वि॒द्वाने॒ष्यो॒३ यः क्र॒व्यादं॑ निरा॒दध॑त् ||

12.2.40

यद् रि॒प्रं शम॑लं चकृ॒म यच्च॑ दुष्कृ॒तम् | आपो॑ मा॒ तस्मा॑च्छुम्भन्त्व॒ग्नेः संक॑सुकाच्च॒ यत् ||

12.2.41

ता अ॑ध॒रादुदी॑ची॒राव॑वृत्रन् प्रजान॒तीः प॒थिभि॑र्देव॒यानैः॑ | पर्व॑तस्य वृष॒भस्याधि॑ पृ॒ष्ठे नवा॑श्चरन्ति स॒रितः॑ पुरा॒णीः ||

12.2.42

अग्ने॑ अक्रव्या॒न्निः क्र॒व्यादं॑ नु॒दा दे॑व॒यज॑नं वह ||

12.2.43

इ॒मं क्र॒व्यादा वि॑वेशा॒यं क्र॒व्याद॒मन्व॑गात् | व्या॒ग्रौ कृ॒त्वा ना॑ना॒नं तं ह॑रामि शिवाप॒रम् ||

12.2.44

अ॒न्त॒र्धिर्दे॒वानां॑ परि॒धिर्म॑नु॒ष्याऽणाम॒ग्निर्गार्ह॑पत्य उ॒भया॑नन्त॒रा श्रि॒तः ||

12.2.45

जी॒वाना॒मायुः॒ प्र ति॑र॒ त्वम॑ग्ने पितॄ॒णां लो॒कमपि॑ गच्छन्तु॒ ये मृ॒ताः | सु॒गा॒र्ह॒प॒त्यो वि॒तप॒न्नरा॑तिमुषामु॑षां॒ श्रेय॑सीं धेह्य॒स्मै ||

12.2.46

सर्वा॑नग्ने॒ सह॑मानः स॒पत्ना॒नैषा॒मूर्जं॑ र॒यिम॒स्मासु॑ धेहि ||

12.2.47

इ॒ममिन्द्रं॒ वह्निं॒ पप्रि॑म॒न्वार॑भध्वं॒ स वो॒ निर्व॑क्षद् दुरि॒ताद॑व॒द्यात् | तेनाप॑ हत॒ शरु॑मा॒पत॑न्तं॒ तेन॑ रु॒द्रस्य॒ परि॑ पाता॒स्ताम् ||

12.2.48

अ॒न॒ड्वाहं॑ प्ल॒वम॒न्वार॑भध्वं॒ स वो॒ निर्व॑क्षद् दुरि॒ताद॑व॒द्यात् | आ रो॑हत सवि॒तुर्नाव॑मे॒तां ष॒ड्भिरु॒र्वीभि॒रम॑तिं तरेम ||

12.2.49

अ॒हो॒रा॒त्रे अन्वे॑षि॒ बिभ्र॑त् क्षे॒म्यस्तिष्ठ॑न् प्र॒तर॑णः सु॒वीरः॑ | अना॑तुरान्त्सु॒मन॑सस्तल्प॒ बिभ्र॒ज्ज्योगे॒व नः॒ पुरु॑षगन्धिरेधि ||

12.2.50

ते दे॒वेभ्य॒ आ वृ॑श्चन्ते पा॒पं जी॑वन्ति सर्व॒दा | क्र॒व्याद् यान॒ग्निर॑न्ति॒कादश्व॑ इवानु॒वप॑ते न॒डम् ||

12.2.51

येऽश्र॒द्धा ध॑नका॒म्या क्र॒व्यादा॑ स॒मास॑ते | ते वा अ॒न्येषां॑ कु॒म्भीं प॒र्याद॑धति सर्व॒दा ||

12.2.52

प्रेव॑ पिपतिषति॒ मन॑सा॒ मुहु॒रा व॑र्तते॒ पुनः॑ | क्र॒व्याद् यान॒ग्निर॑न्ति॒काद॑नुवि॒द्वान् वि॒ताव॑ति ||

12.2.53

अविः॑ कृ॒ष्णा भा॑ग॒धेयं पशू॒नां सीसं॑ क्रव्या॒दपि॑ च॒न्द्रं त॑ आहुः | माषाः॑ पि॒ष्टा भा॑ग॒धेयं॑ ते ह॒व्यम॑रण्या॒न्या गह्व॑रं सचस्व ||

12.2.54

इ॒षीकां॒ जर॑तीमि॒ष्ट्वा ति॒ल्पिञ्जं॒ दण्ड॑नं न॒डम् | तमिन्द्र॑ इ॒ध्मं कृ॒त्वा य॒मस्या॒ग्निं नि॒राद॑धौ ||

12.2.55

प्र॒त्यञ्च॑म॒र्कं प्र॑त्यर्पयि॒त्वा प्र॑वि॒द्वान् पन्थां॒ वि ह्याऽवि॒वेश॑ | परा॒मीषा॒मसू॑न् दि॒देश॑ दी॒र्घेणायु॑षा॒ समि॒मान्त्सृ॑जामि ||