11.8.1
१-३४ कौरुपथिः | अध्यात्मं, मन्युः | अनुष्टुप्, ३३ पथ्यापङ्क्तिः | यन्म॒न्युर्जा॒यामाव॑हत् संक॒ल्पस्य॑ गृ॒हादधि॑ | क आ॑सं॒ जन्याः॒ के व॒राः क उ॑ ज्येष्ठव॒रोऽभवत् ||
अध्यात्मम्।
11.8.1
१-३४ कौरुपथिः | अध्यात्मं, मन्युः | अनुष्टुप्, ३३ पथ्यापङ्क्तिः | यन्म॒न्युर्जा॒यामाव॑हत् संक॒ल्पस्य॑ गृ॒हादधि॑ | क आ॑सं॒ जन्याः॒ के व॒राः क उ॑ ज्येष्ठव॒रोऽभवत् ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
11.8.1
१-३४ कौरुपथिः | अध्यात्मं, मन्युः | अनुष्टुप्, ३३ पथ्यापङ्क्तिः | यन्म॒न्युर्जा॒यामाव॑हत् संक॒ल्पस्य॑ गृ॒हादधि॑ | क आ॑सं॒ जन्याः॒ के व॒राः क उ॑ ज्येष्ठव॒रोऽभवत् ||
11.8.2
तप॑श्चै॒वास्तां॒ कर्म॑ चा॒न्तर्म॑ह॒त्यऽर्ण॒वे | त आ॑सं॒ जन्या॒स्ते व॒रा ब्रह्म॑ ज्येष्ठव॒रोऽभवत् ||
11.8.3
दश॑ सा॒कम॑जायन्त दे॒वा दे॒वेभ्यः॑ पु॒रा | यो वै तान् वि॒द्यात् प्र॒त्यक्षं॒ स वा अ॒द्य म॒हद् व॑देत् ||
11.8.4
प्रा॒णा॒पा॒नौ चक्षुः॒ श्रोत्र॒मक्षि॑तिश्च॒ क्षिति॑श्च॒ या | व्या॒नो॒दा॒नौ वाङ् मन॒स्ते वा आकू॑ति॒माव॑हन् ||
11.8.5
अजा॑ता आसन्नृ॒तवोऽथो॑ धा॒ता बृह॒स्पतिः॑ | इ॒न्द्रा॒ग्नी अ॒श्विना॒ तर्हि॒ कं ते ज्ये॒ष्ठमुपा॑सत ||
11.8.6
तप॑श्चै॒वास्तां॒ कर्म॑ चा॒न्तर्म॑ह॒त्यर्ण॒वे | तपो॑ ह जज्ञे॒ कर्म॑ण॒स्तत् ते ज्ये॒ष्ठमुपा॑सत ||
11.8.7
येत आसी॒द् भूमिः॒ पूर्वा॒ याम॑द्धा॒तय॒ इद् वि॒दुः | यो वै तां वि॒द्यान्ना॒मथा॒ स म॑न्येत पुराण॒वित् ||
11.8.8
कुत॒ इन्द्रः॒ कुतः॒ सोमः॒ कुतो॑ अ॒ग्निर॑जायत | कुत॒स्त्वष्टा॒ सम॑भव॒त् कुतो॑ धा॒ताजा॑यत ||
11.8.9
इन्द्रा॒दिन्द्रः॒ सोमा॒त् सोमो॑ अ॒ग्नेर॒ग्निरजायत | त्वष्टा॑ ह जज्ञे॒ त्वष्टु॑र्धा॒तुर्धा॒ताजा॑यत ||
11.8.10
ये त आस॒न् दश॑ जा॒ता दे॒वा दे॒वेभ्यः॑ पु॒रा | पु॒त्रेभ्यो॑ लो॒कं द॒त्त्वा कस्मिं॒स्ते लो॒क आ॑सते ||
11.8.11
य॒दा केशा॒नस्थि॒ स्नाव॑ मां॒सं म॒ज्जान॒माभ॑रत् | शरी॑रं कृ॒त्वा पाद॑व॒त् कं लो॒कमनु॒ प्रावि॑शत् ||
11.8.12
कुतः॒ केशा॒न् कुतः॒ स्नाव॒ कुतो॒ अस्थी॒न्याभ॑रत् | अङ्गा॒ पर्वा॑णि म॒ज्जानं को मां॒सं कुत॒ आभ॑रत् ||
11.8.13
सं॒सिचो॒ नाम॒ ते दे॒वा ये सं॑भा॒रान्त्स॒मभ॑रन् | सर्वं॑ सं॒सिच्य॒ मर्त्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन् ||
11.8.14
ऊ॒रू पादा॑वष्ठी॒वन्तौ॒ शिरौ॒ हस्ता॒वथो॒ मुख॑म् | पृ॒ष्टीर्ब॑र्ज॒ह्ये पा॒र्श्वे कस्तत् सम॑दधा॒दृषिः॑ ||
11.8.15
शिरो॒ हस्ता॒वथो॒ मुखं॑ जि॒ह्वां ग्री॒वाश्च॒ कीक॑साः | त्व॒चा प्रा॒वृत्य॒ सर्वं॒ तत् सं॒धा सम॑दधान्म॒ही ||
11.8.16
यत् तच्छरी॑र॒मश॑यत् सं॒धया॒ संहि॑तं म॒हत् | येने॒दम॒द्य रोच॑ते॒ को अ॑स्मि॒न् वर्ण॒माभ॑रत् ||
11.8.17
सर्वे॑ दे॒वा उपा॑शिक्ष॒न् तद॑जानाद् व॒धूः स॒ती | ई॒शा वश॑स्य॒ या जा॒या सास्मि॒न् वर्ण॒माभ॑रत् ||
11.8.18
य॒दा त्वष्टा॒ व्यतृ॑णत् पि॒ता त्वष्टु॒र्य उत्त॑रः | गृ॒हं कृ॒त्वा मर्त्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन् ||
11.8.19
स्वप्नो॒ वै त॒न्द्रीर्निरृ॑तिः पा॒प्मानो॒ नाम॑ दे॒वताः॑ | ज॒रा खाल॑त्यं॒ पालि॑त्यं॒ शरी॑र॒मनु॒ प्रावि॑शन् ||
11.8.20
स्तेयं॑ दुष्कृ॒तं वृ॑जि॒नं स॒त्यं य॒ज्ञो यशो॑ बृ॒हत् | बलं॑ च क्ष॒त्रमोज॑श्च॒ शरी॑र॒मनु॒ प्रावि॑शन् ||
11.8.21
भूति॑श्च॒ वा अभू॑तिश्च रा॒तयोऽरा॑तयश्च॒ याः | क्षुध॑श्च॒ सर्वा॒स्तृष्णा॑श्च॒ शरी॑र॒मनु॒ प्रावि॑शन् ||
11.8.22
नि॒न्दाश्च॒ वा अनि॑न्दाश्च॒ यच्च॒ हन्तेति॒ नेति॑ च | शरी॑रं श्र॒द्धा दक्षि॒णाश्र॑द्धा॒ चानु॒ प्रावि॑शन् ||
11.8.23
वि॒द्याश्च॒ वा अवि॑द्याश्च॒ यच्चा॒न्यदु॑पदे॒श्यऽम् | शरी॑रं॒ ब्रह्म॒ प्रावि॑श॒दृचः॒ सामाथो॒ यजुः॑ ||
11.8.24
आ॒न॒न्दा मोदाः॑ प्र॒मुदो॑ऽभिमोद॒मुद॑श्च॒ ये | ह॒सो न॒रिष्टा॑ नृ॒त्तानि॒ शरी॑र॒मनु॒ प्रावि॑शन् ||
11.8.25
आ॒ला॒पाश्च॑ प्रला॒पाश्चा॑भिलाप॒लप॑श्च॒ ये | शरी॑रं॒ सर्वे॒ प्रावि॑शन्ना॒युजः॑ प्र॒युजो॒ युजः॑ ||
11.8.26
प्रा॒णा॒पा॒नौ चक्षुः॒ श्रोत्र॒मक्षि॑तिश्च॒ क्षिति॑श्च॒ या | व्या॒नो॒दा॒नौ वाङ् मनः॒ शरी॑रेण॒ त ई॑यन्ते ||
11.8.27
आ॒शिष॑श्च प्र॒शिष॑श्च सं॒शिषो॑ वि॒शिष॑श्च॒ याः | चि॒त्तानि॒ सर्वे॑ संक॒ल्पाः शरी॑र॒मनु॒ प्रावि॑शन् ||
11.8.28
आस्ते॑यीश्च॒ वास्ते॑यीश्च त्वर॒णाः कृ॑प॒णाश्च॒ याः | गुह्याः॑ शु॒क्रा स्थू॒ला अ॒पस्ता बी॑भ॒त्साव॑सादयन् ||
11.8.29
अस्थि॑ कृ॒त्वा स॒मिधं॒ तद॒ष्टापो॑ असादयन् | रेतः॑ कृ॒त्वाज्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन् ||
11.8.30
या आपो॒ याश्च॑ दे॒वता॒ या वि॒राड् ब्रह्म॑णा स॒ह | शरी॑रं॒ ब्रह्म॒ प्रावि॑श॒च्छरी॒रेऽधि॑ प्र॒जाप॑तिः ||
11.8.31
सूर्य॒श्चक्षु॒र्वातः॑ प्रा॒णं पुरु॑षस्य॒ वि भे॑जिरे | अथा॒स्येत॑रमा॒त्मानं॑ दे॒वाः प्राय॑च्छन्न॒ग्नये॑ ||
11.8.32
तस्मा॒द् वै विद्वान् पुरु॑षमि॒दं ब्रह्मेति॑ मन्यते | सर्वा॒ ह्यऽस्मिन् दे॒वता॒ गावो॑ गो॒ष्ठ इ॒वास॑ते ||
11.8.33
प्र॒थ॒मेन॑ प्रमा॒रेण॑ त्रे॒धा विष्व॒ङ् वि ग॑च्छति | अ॒द एके॑न॒ गच्छ॑त्य॒द एके॑न गच्छती॒हैके॑न॒ नि षे॑वते ||
11.8.34
अ॒प्सु स्ती॒मासु॑ वृ॒द्धासु॒ शरी॑रमन्त॒रा हि॒तम् | तस्मिं॒छवोऽध्य॑न्त॒रा तस्मा॒च्छवोऽध्यु॑च्यते ||