11.3.1
(१)
१-३१ अथर्वा |
ओदनः (बार्हस्पत्यौदनः |
) ( त्रयः पर्याया) |
१, १४ आसुरी गायत्री, २ त्रिपदा समविषमा गायत्री, ३, ६, १० आसुरी पङ्क्तिः, ४, ८ साम्न्यनुष्टुप्, ५, १३, १५, २५ साम्न्युष्णिक्, ७, १९-२२ प्राजापत्याऽनुष्टुप्, ९, १७-१८ आसुर्यनुष्टुप्, ११ भुरिगार्च्नुष्टुप्, १२ याजुषी जगती, १६ २३ आसुरी बृहती, २४ त्रिपदा प्राजापत्या बृहती, २६ आर्च्युष्णिक्, २७-२९ साम्नी बृहती, (२८-२९ भुरिक्), ३० याजुषी त्रिष्टुप्, ३१ अल्पशः पङ्क्तिरुत याजुषी |
तस्यौ॑द॒नस्य॒ बृहस्पतिः॒ शिरो॒ ब्रह्म॒ मुख॑म् ||
11.3.2
द्यावा॑पृथि॒वी श्रोत्रे॑ सूर्याचन्द्र॒मसा॒वक्षि॑णी सप्तऋ॒षयः॑ प्राणापा॒नाः ||
11.3.3
चक्षु॒र्मुस॑लं॒ काम॑ उ॒लूख॑लम् ||
11.3.4
दितिः॒ शूर्प॒मदि॑तिः शूर्पग्रा॒ही वातोऽपा॑विनक् ||
11.3.5
अश्वाः॒ कणा॒ गाव॑स्तण्डु॒ला म॒शका॒स्तुषाः॑ ||
11.3.6
कब्रु॑ फली॒कर॑णाः॒ शरो॒ऽभ्रम् ||
11.3.7
श्या॒ममयो॑ऽस्य मां॒सानि॒ लोहि॑तमस्य॒ लोहि॑तम् ||
11.3.8
त्रपु॒ भस्म॒ हरि॑तं॒ वर्णः॒ पुष्क॑रमस्य ग॒न्धः ||
11.3.9
खलः॒ पात्रं॒ स्फ्यावंसा॑वी॒षे अ॑नू॒क्येऽ ||
11.3.10
आ॒न्त्राणि॑ ज॒त्रवो॒ गुदा॑ वर॒त्राः ||
11.3.11
इ॒यमे॒व पृ॑थि॒वी कु॒म्भी भ॑वति॒ राध्य॑मानस्यौद॒नस्य॒ द्यौर॑पि॒धान॑म् ||
11.3.12
सीताः॒ पर्श॑वः॒ सिक॑ता॒ ऊब॑ध्यम् ||
11.3.13
ऋ॒तं ह॑स्ताव॒नेज॑नं कु॒ल्योऽप॒सेच॑नम् ||
11.3.14
ऋ॒चा कु॒म्भ्यधि॑हि॒तार्त्विज्येन॒ प्रेषि॑ता ||
11.3.15
ब्रह्म॑णा॒ परि॑गृहीता॒ साम्ना॒ पर्यू॑ढा ||
11.3.16
बृ॒हदा॒यव॑नं रथन्त॒रं दर्विः॑ ||
11.3.17
ऋ॒तवः॑ प॒क्तार॑ आर्त॒वाः समि॑न्धते ||
11.3.18
च॒रुं पञ्च॑बिलमु॒खं घ॒र्मो॒३भी॑न्धे ||
11.3.19
ओ॒द॒नेन॑ यज्ञव॒चः सर्वे॑ लो॒काः स॑मा॒प्याः ||
11.3.20
यस्मि॑न्त्समु॒द्रो द्यौर्भूमि॒स्त्रयो॑ऽवरप॒रं श्रि॒ताः ||
11.3.21
यस्य॑ दे॒वा अक॑ल्प॒न्तोच्छि॑ष्टे॒ षड॑शी॒तयः॑ ||
11.3.22
तं त्वौ॑द॒नस्य॑ पृच्छामि॒ यो अ॑स्य महि॒मा म॒हान् ||
11.3.23
स य ओ॑द॒नस्य॑ महि॒मानं॑ वि॒द्यात् ||
11.3.24
नाल्प॒ इति॑ ब्रूया॒न्नानु॑पसेच॒न इति॒ नेदं च॒ किं चेति॑ ||
11.3.25
याव॑द् दा॒ताभि॑मन॒स्येत॒ तन्नाति॑ वदेत् ||
11.3.26
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ परा॑ञ्चमोद॒नं प्राशीः३ प्र॒त्यञ्चा३मिति॑ ||
11.3.27
त्वमो॑द॒नं प्राशी३स्त्वामो॑द॒ना३ इति॑ ||
11.3.28
परा॑ञ्चं चैनं॒ प्राशीः॑ प्रा॒णास्त्वा॑ हास्य॒न्तीत्ये॑नमाह ||
11.3.29
प्र॒त्यञ्चं॑ चैनं॒ प्राशी॑रपा॒नास्त्वा॑ हास्य॒न्तीत्ये॑नमाह ||
11.3.30
नैवाहमो॑द॒नं न मामो॑द॒नः ||
11.3.31
ओ॒द॒न ए॒वौद॒नं प्राशी॑त् ||
11.3.1
(२)
३२-४९ मन्त्रोक्ताः |
३२, ३८, ४१ (प्रथमा), ३२-४९ (सप्तमी) साम्नी त्रिष्टुप्, ३२, ३५,४२ (द्वितीया), ३२-४९ (तृतीया) ३३-३४, ४४-४८ (पञ्चमी) एकपदाऽऽसुरी गायत्री, ३२, ४१, ४३, ४७ दैवी जगती, ३८, ४४, ४६ (द्विo), ३२, ३५-४३, ४९ (पञ्चo) एकपदाऽऽसुर्यनुष्टुप्, ३२-४९ (षष्ठी) साम्न्यनुष्टुप्, ३२-४९ (प्रo) आर्च्यनुष्टुप्, ३७ (प्रo) साम्नी पङ्क्तिः, ३३, ३६, ४०, ४७-४८ (द्विo) आसुरी जगती, ३४, ३७, ४१, ४३, ४५ (द्विo) आसुरी पङ्क्तिः, ३४ (चo) आसुरी त्रिष्टुप्, ३५, ४६, ४८ (चo) याजुषी गायत्री, ३६-३७, ४० (चo) दैवी पङ्क्तिः ३८-३९ (चo) प्राजापत्या गायत्री, ३९ (द्विo) आसुर्युष्णिक्, ४२, ४५, ४९ (चo) दैवी त्रिष्टुप्, ४९ (द्विo) एकपदा भुरिक्साम्नी बृहती |
तत॑श्चैनम॒न्येन॑ शी॒र्ष्णा प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ||
11.3.2
ज्ये॒ष्ठ॒तस्ते॑ प्र॒जा म॑रिष्य॒तीत्ये॑नमाह ||
11.3.3
तं वा अ॒हं नार्वाञ्चं॑ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ||
11.3.4
बृह॒स्पति॑ना शी॒र्ष्णा ||
11.3.5
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ||
11.3.6
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ||
11.3.7
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ||
11.3.1
३२॥
तत॑श्चैनम॒न्याभ्यां॒ श्रोत्रा॑भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ||
11.3.2
ब॒धि॒रो भ॑विष्य॒सीत्ये॑नमाह ||
11.3.3
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ||
11.3.4
द्यावा॑पृथि॒वीभ्यां॒ श्रोत्रा॑भ्याम् ||
11.3.5
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ||
11.3.6
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ||
11.3.7
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ||
11.3.1
३३॥
तत॑श्चैनम॒न्याभ्या॑म॒क्षीभ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ||
11.3.2
अ॒न्धो भ॑वि॒ष्य॒सीत्ये॑नमाह ||
11.3.3
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ||
11.3.4
सू॒र्या॒च॒न्द्र॒म॒साभ्या॑म॒क्षीभ्या॑म् ||
11.3.5
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ||
11.3.6
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्वपरुः॒ सर्व॑तनूः ||
11.3.7
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ||
11.3.1
३४॥
तत॑श्चैनम॒न्येन॒ मुखे॑न॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ||
11.3.2
मु॒ख॒तस्ते॑ प्र॒जा म॑रिष्य॒तीत्ये॑नमाह ||
11.3.3
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ||
11.3.4
ब्रह्म॑णा॒ मुखे॑न ||
11.3.5
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ||
11.3.6
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ||
11.3.7
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ||
11.3.1
३५॥
तत॑श्चैनम॒न्यया॑ जि॒ह्वया॒ प्राशी॒र्यया॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ||
11.3.2
जि॒ह्वा ते॑ मरिष्य॒तीत्ये॑नमाह ||
11.3.3
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ||
11.3.4
अ॒ग्नेर्जि॒ह्वया॑ ||
11.3.5
तयै॑नं॒ प्राशि॑षं॒ तयै॑नमजीगमम् ||
11.3.6
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ||
11.3.7
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ||
11.3.1
३६॥
तत॑श्चैनम॒न्यैर्दन्तैः॒ प्राशी॒र्यैश्चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ||
11.3.2
दन्ता॑स्ते शत्स्य॒न्तीत्ये॑नमाह ||
11.3.3
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ||
11.3.4
ऋ॒तुभि॒र्दन्तैः॑ ||
11.3.5
तैरे॑नं॒ प्राशि॑षं॒ तैरे॑नमजीगमम् ||
11.3.6
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ||
11.3.7
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ||
11.3.1
३७॥
तत॑श्चैनम॒न्यैः प्रा॑णापा॒नैः प्राशी॒र्यैश्चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ||
11.3.2
प्रा॒णा॒पा॒नास्त्वा॑ हास्य॒न्तीत्ये॑नमाह ||
11.3.3
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ||
11.3.4
स॒प्त॒ऋषिभिः॑ प्राणापा॒नैः ||
11.3.5
तैरे॑नं॒ प्राशि॑षं॒ तैरे॑नमजीगमम् ||
11.3.6
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ||
11.3.7
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ||
11.3.1
३८॥
तत॑श्चैनम॒न्येन॒ व्यच॑सा॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ||
11.3.2
रा॒ज॒य॒क्ष्मस्त्वा॑ हनिष्य॒तीत्ये॑नमाह ||
11.3.3
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ||
11.3.4
अ॒न्तरि॑क्षेण॒ व्यच॑सा ||
11.3.5
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ||
11.3.6
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ||
11.3.7
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ||
11.3.1
३९॥
तत॑श्चैनम॒न्येन॑ पृ॒ष्ठेन॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ||
11.3.2
वि॒द्युत् त्वा॑ हनिष्य॒तीत्ये॑नमाह ||
11.3.3
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ||
11.3.4
दि॒वा पृ॒ष्ठेन॑ ||
11.3.5
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ||
11.3.6
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ||
11.3.7
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ||
11.3.1
४०॥
तत॑श्चैनम॒न्येनोर॑सा॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ||
11.3.2
कृ॒ष्या न रा॑त्स्य॒सीत्ये॑नमाह ||
11.3.3
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ||
11.3.4
पृ॒थि॒व्योर॑सा ||
11.3.5
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ||
11.3.6
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ||
11.3.7
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ||
11.3.1
४१॥
तत॑श्चैनम॒न्येनो॒दरे॑ण॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ||
11.3.2
उ॒द॒र॒दा॒रस्त्वा॑ हनिष्य॒तीत्ये॑नमाह ||
11.3.3
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ||
11.3.4
स॒त्येनो॒दरे॑ण ||
11.3.5
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ||
11.3.6
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ||
11.3.7
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ||
11.3.1
४२॥
तत॑श्चैनम॒न्येन॑ व॒स्तिना॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ||
11.3.2
अ॒प्सु म॑रिष्य॒सीत्ये॑नमाह ||
11.3.3
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ||
11.3.4
स॒मु॒द्रेण॑ व॒स्तिना॑ ||
11.3.5
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ||
11.3.6
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ||
11.3.7
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ||
11.3.1
४३॥
तत॑श्चैनम॒न्याभ्या॑मू॒रुभ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ||
11.3.2
ऊ॒रू ते॑ मरिष्यत॒ इत्ये॑नमाह ||
11.3.3
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ||
11.3.4
मि॒त्राव॑रुणयोरू॒रुभ्या॑म् ||
11.3.5
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ||
11.3.6
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ||
11.3.7
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ||
11.3.1
४४॥
तत॑श्चैनम॒न्याभ्या॑मष्ठी॒वद्भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ||
11.3.2
स्रा॒मो भ॑विष्य॒सीत्ये॑नमाह ||
11.3.3
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ||
11.3.4
त्वष्टु॑रष्ठी॒वद्भ्या॑म् ||
11.3.5
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ||
11.3.6
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ||
11.3.7
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ||
11.3.1
४५॥
तत॑श्चैनम॒न्याभ्यां॒ पादा॑भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ||
11.3.2
ब॒हुचा॒री भ॑विष्य॒सीत्ये॑नमाह ||
11.3.3
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ||
11.3.4
अ॒श्विनोः॒ पादा॑भ्याम् ||
11.3.5
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ||
11.3.6
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ||
11.3.7
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ||
11.3.1
४६॥
तत॑श्चैनम॒न्याभ्यां॒ प्रप॑दाभ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ||
11.3.2
स॒र्पस्त्वा॑ हनिष्य॒तीत्ये॑नमाह ||
11.3.3
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ||
11.3.4
स॒वि॒तुः प्रप॑दाभ्याम् ||
11.3.5
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ||
11.3.6
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ||
11.3.7
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ||
11.3.1
४७॥
तत॑श्चैनम॒न्याभ्यां॒ हस्ता॑भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ||
11.3.2
ब्रा॒ह्म॒णं ह॑निष्य॒सीत्ये॑नमाह ||
11.3.3
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ||
11.3.4
ऋ॒तस्य॒ हस्ता॑भ्याम् ||
11.3.5
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ||
11.3.6
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ||
11.3.7
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ||
11.3.1
४८॥
तत॑श्चैनम॒न्यया॑ प्रति॒ष्ठया॒ प्राशी॒र्यया॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ||
11.3.2
अ॒प्र॒ति॒ष्ठा॒नोऽनायत॒नो म॑रिष्य॒सीत्ये॑नमाह ||
11.3.3
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ||
11.3.4
स॒त्ये प्र॑ति॒ष्ठाय॑ ||
11.3.5
तयै॑नं॒ प्राशि॑षं॒ तयै॑नमजीगमम् ||
11.3.6
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ||
11.3.7
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ||
11.3.50
४९॥
(३)
५०-५६ मन्त्रोक्ताः |
५० आसुर्यनुष्टुप्, ५१ आर्च्युष्णिक्, ५२ त्रिपदा भुरिक्साम्नी त्रिष्टुप्, ५३ आसुरी बृहती, ५४ द्विपदा भुरिक्साम्नी बृहती, ५५ साम्न्युष्णिक्, ५६ प्राजापत्या बृहती |
ए॒तद् वै ब्र॒ध्नस्य॑ वि॒ष्टपं॒ यदो॑द॒नः ||
11.3.51
ब्र॒ध्नलो॑को भवति ब्र॒ध्नस्य॑ वि॒ष्टपि॑ श्रयते॒ य ए॒वं वेद॑ ||
11.3.52
ए॒तस्मा॒द् वा ओ॑द॒नात् त्रय॑स्त्रिंशतं लो॒कान् निर॑मिमीत प्र॒जाप॑तिः ||
11.3.53
तेषां॑ प्र॒ज्ञाना॑य य॒ज्ञम॑सृजत ||
11.3.54
स य ए॒वं वि॒दुष॑ उपद्र॒ष्टा भ॑वति प्रा॒णं रु॑णद्धि ||
11.3.55
न च॑ प्रा॒णं रु॒णद्धि॑ सर्वज्या॒निं जी॑यते ||
11.3.56
न च॑ सर्वज्या॒निं जी॒यते॑ पु॒रैनं॑ ज॒रसः॑ प्रा॒णो ज॑हाति ||