11.10.1
१-२७ भृग्वङ्गिराः | त्रिषन्धिः | अनुष्टुप्, १ विराट् पथ्याबृहती, २ त्र्यवसाना षट्-पदा त्रिष्टुब्गर्भाऽतिजगती, ३ विराडास्तारपङ्क्तिः, ४ विराट्, ८ विराट् त्रिष्टुप्, ९ पुरोविराट् पुरस्ताज्ज्योतिस्त्रिष्टुप्, १२ पञ्चपदा पथ्यापङ्क्तिः, १३ षट्-पदा जगती, १६ त्र्यवसाना षट्-पदा ककुम्मत्यनुष्टुप्त्रिष्टुब्गर्भा शक्वरी, १७ पथ्यापङ्क्तिः, २१ त्रिपदा गायत्री, २२ विराट् पुरस्ताद्बृहती, २५ ककुप्, २६ प्रस्तारपङ्क्तिः | उत् ति॑ष्ठत॒ सं न॑ह्यध्व॒मुदा॑राः के॒तुभिः॑ स॒ह | सर्पा॒ इत॑रजना॒ रक्षां॑स्य॒मित्रा॒ननु॑ धावत ||