Atharvaveda 11.1

ब्रह्मौदनम्।

11.1.1

१-३७ ब्रह्म | ओदनः | त्रिष्टुप्, १ अनुष्टुब्गर्भा, भुरिक्पङ्क्तिः, २ बृहतीगर्भा विराट्, ३ चतुष्पदा शाक्वरगर्भा जगती, ४, १५-१६ भुरिक्, ५ बृहतीगर्भा विराट्, ६ उष्णिक्, ८ विराड् गायत्री, ९ शाक्वरातिजागतगर्भा जगती, १० विराट् पुरोतिजगती विराड् जगती, ११ जगती, १७, २१, २४-२६, २९ (भुरिक्), ३७ विराड् जगती, १८ अतिजागतगर्भा परातिजागता विराडतिजगती, २० अतिजागतगर्भा परा शाक्वरा चतुष्पदा भुरिग्जगती, २७ अतिजागतगर्भा जगती, ३१ भुरिक्, ३५ चतुष्पदा ककुम्मत्युष्णिक्, ३६ पुरोविराड् (व्याघ्रादिष्ववगन्तव्या) | अग्ने॒ जाय॒स्वादि॑तिर्नाथि॒तेयं ब्र॑ह्मौद॒नं प॑चति पु॒त्रका॑मा | स॒प्त॒ऋ॒षयो॑ भूत॒कृत॒स्ते त्वा॑ मन्थन्तु प्र॒जया॑ स॒हे॑ह ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

11.1.1

१-३७ ब्रह्म | ओदनः | त्रिष्टुप्, १ अनुष्टुब्गर्भा, भुरिक्पङ्क्तिः, २ बृहतीगर्भा विराट्, ३ चतुष्पदा शाक्वरगर्भा जगती, ४, १५-१६ भुरिक्, ५ बृहतीगर्भा विराट्, ६ उष्णिक्, ८ विराड् गायत्री, ९ शाक्वरातिजागतगर्भा जगती, १० विराट् पुरोतिजगती विराड् जगती, ११ जगती, १७, २१, २४-२६, २९ (भुरिक्), ३७ विराड् जगती, १८ अतिजागतगर्भा परातिजागता विराडतिजगती, २० अतिजागतगर्भा परा शाक्वरा चतुष्पदा भुरिग्जगती, २७ अतिजागतगर्भा जगती, ३१ भुरिक्, ३५ चतुष्पदा ककुम्मत्युष्णिक्, ३६ पुरोविराड् (व्याघ्रादिष्ववगन्तव्या) | अग्ने॒ जाय॒स्वादि॑तिर्नाथि॒तेयं ब्र॑ह्मौद॒नं प॑चति पु॒त्रका॑मा | स॒प्त॒ऋ॒षयो॑ भूत॒कृत॒स्ते त्वा॑ मन्थन्तु प्र॒जया॑ स॒हे॑ह ||

11.1.2

कृ॒णु॒त धू॒मं वृ॑षणः सखा॒योऽद्रो॑घाविता॒ वाच॒मच्छ॑ | अ॒यम॒ग्निः पृ॑तना॒षाट् सु॒वीरो॑ येन॑ दे॒वा अस॑हन्त॒ दस्यू॑न् ||

11.1.3

अग्नेऽज॑निष्ठा मह॒ते वी॒र्याऽय ब्रह्मौद॒नाय॒ पक्त॑वे जातवेदः | स॒प्त॒ऋ॒षयो॑ भूत॒कृत॒स्ते त्वा॑जीजनन्न॒स्यै र॒यिं सर्व॑वीरं॒ नि य॑च्छ ||

11.1.4

समि॑द्धो अग्ने स॒मिधा॒ समि॑ध्यस्व वि॒द्वान् दे॒वान् य॒ज्ञियाँ॒ एह व॑क्षः | तेभ्यो॑ ह॒विः श्र॒पयं॑ जातवेद उत्त॒मं नाक॒मधि॑ रोहये॒मम् ||

11.1.5

त्रे॒धा भा॒गो निहि॑तो॒ यः पु॒रा वो॑ दे॒वानां॑ पितॄ॒णां मर्त्या॑नाम् | अंशा॑न् जानीध्वं॒ वि भ॑जामि॒ तान् वो॒ यो दे॒वानां॒ स इ॒मां पा॑रयाति ||

11.1.6

अग्ने॒ सह॑स्वानभि॒भूर॒भीद॑सि॒ नीचो॒ न्युऽब्ज द्विष॒तः स॒पत्ना॑न् | इ॒यं मात्रा॑ मी॒यमा॑ना मि॒ता च॑ सजा॒तांस्ते॑ बलि॒हृतः॑ कृणोतु ||

11.1.7

सा॒कं स॑जा॒तैः पय॑सा स॒हैध्युदु॑ब्जैनां मह॒ते वी॒र्याऽय | ऊ॒र्ध्वो नाक॒स्याधि॑ रोह वि॒ष्टपं॑ स्व॒र्गो लो॒क इति॒ यं वद॑न्ति ||

11.1.8

इ॒यं म॒ही प्रति॑ गृह्णातु॒ चर्म॑ पृथि॒वी दे॒वी सु॑मन॒स्यमा॑ना | अथ॑ गच्छेम सुकृ॒तस्य॑ लो॒कम् ||

11.1.9

ए॒तौ ग्रावा॑णौ स॒युजा॑ युङ्ग्धि॒ चर्म॑णि॒ निर्भि॑न्ध्यं॒शून् यज॑मानाय सा॒धु | अ॒व॒घ्न॒ती नि ज॑हि॒ य इ॒मां पृ॑त॒न्यव॑ ऊ॒र्ध्वं प्र॒जामु॒द्भर॒न्त्युदू॑ह ||

11.1.10

गृ॒हा॒ण ग्रावा॑णौ स॒कृतौ॑ वीर॒ हस्त॒ आ ते॑ दे॒वा य॒ज्ञिया॑ य॒ज्ञम॑गुः | त्रयो॒ वरा॑ यत॒मांस्त्वं वृ॑णी॒षे तास्ते॒ समृ॑द्धीरि॒ह रा॑धयामि ||

11.1.11

॥ इ॒यं ते॑ धी॒तिरि॒दमु॑ ते ज॒नित्रं॑ गृ॒ह्णातु॒ त्वामदि॑तिः॒ शूर॑पुत्रा | परा॑ पुनीहि॒ य इ॒मां पृ॑त॒न्यवो॒ऽस्यै र॒यिं सर्व॑वीरं॒ नि य॑च्छ ||

11.1.12

॥ उ॒प॒श्व॒से द्रु॒वये॑ सीदता यू॒यं वि वि॑च्यध्वं यज्ञियास॒स्तुषैः॑ | श्रि॒या स॑मा॒नानति॒ सर्वा॑न्त्स्यामाधस्प॒दं द्वि॑ष॒तस्पा॑दयामि ||

11.1.13

परे॑हि नारि॒ पुन॑रेहि॑ क्षि॒प्रम॒पां त्वा॑ गो॒ष्ठोऽध्य॑रुक्ष॒द् भरा॑य | तासां॑ गृह्णीताद् यत॒मा य॒ज्ञिया॒ अस॑न् वि॒भाज्य॑ धी॒रीत॑रा जहीतात् ||

11.1.14

एमा अ॑गुर्यो॒षितः॒ शुम्भ॑माना॒ उत्ति॑ष्ठ नारि त॒वसं॑ रभस्व | सु॒पत्नी॒ पत्या॑ प्र॒जया॑ प्र॒जाव॒त्या त्वा॑गन् यज्ञः प्रति॑ कु॒म्भं गृ॑भाय ||

11.1.15

ऊ॒र्जो भा॒गो निहि॑तो॒ यः पु॒रा व॒ ऋषि॑प्रशिष्टा॒प आ भ॑रै॒ताः | अ॒यं य॒जो गा॑तु॒विन्ना॑थ॒वित् प्र॑जा॒विदु॒ग्रः प॑शु॒विद् वी॑र॒विद् वो॑ अस्तु ||

11.1.16

अग्ने॑ च॒रुर्य॒ज्ञिय॒स्त्वाध्य॑रुक्ष॒च्छुचि॒स्तपि॑ष्ठ॒स्तप॑सा तपैनम् | आ॒र्षे॒या दै॒वा अ॑भिसं॒गत्य॒ भा॒गमि॒मं तपि॑ष्ठा ऋ॒तुभि॑स्तपन्तु ||

11.1.17

शु॒द्धाः पू॒ता यो॒षितो॑ य॒ज्ञिया॑ इ॒मा आप॑श्च॒रुमव॑ सर्पन्तु शु॒भ्राः | अदुः॑ प्र॒जां ब॑हु॒लान् प॒शून् नः॑ प॒क्तौद॒नस्य॑ सु॒कृता॑मेतु लो॒कम् ||

11.1.18

ब्रह्म॑णा शु॒द्धा उ॒त पू॒ता घृ॒तेन॑ सोम॑स्यां॒शव॑स्तण्डु॒ला य॒ज्ञिया॑ इ॒मे | अ॒पः प्र वि॑शत॒ प्रति॑ गृह्णातु वश्च॒रुरि॒मं प॒क्त्वा सु॒कृता॑मेत लो॒कम् ||

11.1.19

उ॒रुः प्र॑थस्व मह॒ता म॑हि॒म्ना स॒हस्र॑पृष्ठः सुकृ॒तस्य॑ लो॒के | पि॒ता॒म॒हाः पि॒तरः॑ प्र॒जोप॒जाहं प॒क्ता प॑ञ्चद॒शस्ते॑ अस्मि ||

11.1.20

स॒हस्र॑पृष्ठः श॒तधा॑रो॒ अक्षि॑तो ब्रह्मौद॒नो दे॑व॒यानः॑ स्व॒र्गः | अ॒मूंस्त॒ आ द॑धामि प्र॒जया॑ रेषयैनान् बलिहा॒राय॑ मृडता॒न्मह्य॑मे॒व ||

11.1.21

॥ उ॒देहि॒ वेदिं॑ प्र॒जया॑ वर्धयैनां नु॒दस्व॒ रक्षः॑ प्रत॒रं धे॑ह्येनाम् | श्रि॒या स॑मा॒नानति॒ सर्वा॑न्त्स्यामाधस्प॒दं द्वि॑ष॒तस्पा॑दयामि ||

11.1.22

॥ अ॒भ्याव॑र्तस्व प॒शुभिः॑ स॒हैनां॑ प्र॒त्यङे॑नां दे॒वता॑भिः स॒हैधि॑ | मा त्वा॒ प्राप॑च्छ॒पथो॒ माभि॑चा॒रः स्वे क्षेत्रे॑ अनमी॒वा वि रा॑ज ||

11.1.23

॥ ऋ॒तेन॑ त॒ष्टा मन॑सा हि॒तैषा ब्र॑ह्मौद॒नस्य॒ विहि॑ता॒ वेदि॒रग्रे॑ | अं॒स॒द्रीं शु॒द्धामुप॑ धेहि नारि॒ तत्रौ॑द॒नं सा॑दय दै॒वाना॑म् ||

11.1.24

अदि॑ते॒र्हस्तां॒ स्रुच॑मे॒तां द्वि॒तीयां॑ सप्तऋ॒षयो॑ भूत॒कृतो॒ यामकृ॑ण्वन् | सा गात्रा॑णि वि॒दुष्यो॑द॒नस्य॒ दर्वि॒र्वेद्या॒मध्ये॑नं चिनोतु ||

11.1.25

शृ॒तं त्वा॑ ह॒व्यमुप॑ सीदन्तु दै॒वा निः॒सृप्या॒ग्नेः पुन॑रेना॒न् प्र सी॑द | सोमे॑न पू॒तो ज॒ठरे॑ सीद ब्र॒ह्म॑णामार्षे॒यास्ते॒ मा रि॑षन् प्राशि॒तारः॑ ||

11.1.26

सोम॑ राजन्त्सं॒ज्ञान॒मा व॑पैभ्यः॒ सुब्रा॑ह्मणा यत॒मे त्वो॑प॒सीदा॑न् | ऋषी॑नार्षे॒यांस्तप॒सोऽधि॑ जा॒तान् ब्र॑ह्मौद॒ने सु॒हवा॑ जोहवीमि ||

11.1.27

शु॒द्धाः पू॒ता यो॒षितो॑ य॒ज्ञिया॑ इ॒मा ब्र॒ह्मणां॒ हस्ते॑षु प्रपृ॒थक् सा॑दयामि | यत् का॑म इ॒दम॑भिषि॒ञ्चामि॑ वो॒ऽहमिन्द्रो॑ म॒रुत्वा॒न्त्स द॑दादि॒दं मे॑ ||

11.1.28

इ॒दं मे॒ ज्योति॑र॒मृतं॒ हिर॑ण्यं प॒क्वं क्षेत्रा॑त् काम॒दुघा॑ म ए॒षा | इ॒दं ध॒नं नि द॑धे ब्राह्म॒णेषु॑ कृ॒ण्वे पन्थां॑ पि॒तृषु॒ यः स्व॒र्गः ||

11.1.29

अ॒ग्नौ तुषा॒ना व॑प जा॒तवे॑दसि प॒रः क॒म्बूकाँ॒ अप॑ मृड्ढि दू॒रम् | ए॒तं शु॑श्रुम गृहरा॒जस्य॑ भा॒गमथो॑ विद्म॒ निरृ॑तेर्भाग॒धेय॑म् ||

11.1.30

श्राम्य॑तः॒ पच॑तो विद्धि सुन्व॒तः पन्थां॑ स्व॒र्गमधि॑ रोहयैनम् | येन॒ रोहा॒त् पर॑मा॒पद्य॒ यद् वय॑ उत्त॒मं नाकं॑ पर॒मं व्योऽम ||

11.1.31

॥ ब॒भ्रेर॑ध्वर्यो॒ मुख॑मे॒तद् वि मृ॒ड्ढ्याज्या॑य लो॒कं कृ॑णुहि प्रवि॒द्वान् | घृ॒तेन॒ गात्रानु॒ सर्वा॒ वि मृ॑ड्ढि कृ॒ण्वे पन्थां॑ पि॒तृषु॒ यः स्व॒र्गः ||

11.1.32

॥ बभ्रे॒ रक्षः॑ स॒मद॒मा व॑पै॒भ्योऽब्रा॑ह्मणा यत॒मे त्वो॑प॒सीदा॑न् | पु॒री॒षिणः॒ प्रथ॑मानाः पु॒रस्ता॑दार्षे॒यास्ते॒ मा रि॑षन् प्राशि॒तारः॑ ||

11.1.33

॥ आ॒र्षे॒येषु॒ नि द॑ध ओदन त्वा॒ नाना॑र्षेयाणा॒मप्य॒स्त्यत्र॑ | अ॒ग्निर्मे॑ गो॒प्ता म॒रुत॑श्च॒ सर्वे॒ विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु प॒क्वम् ||

11.1.34

॥ य॒ज्ञं दुहा॑नं॒ सद॒मित् प्रपी॑नं॒ पुमां॑सं धे॒नुं सद॑नं रयी॒णाम् | प्र॒जा॒मृ॒त॒त्वमु॒त दी॒र्घमायू॑ रा॒यश्च॒ पोषै॒रुप॑ त्वा सदेम ||

11.1.35

वृ॒ष॒भोऽसि स्व॒र्ग ऋषी॑नार्षे॒यान् ग॑च्छ | सु॒कृतां॑ लो॒के सी॑द॒ तत्र॑ नौ संस्कृ॒तम् ||

11.1.36

स॒माचि॑नुष्वानुस॒म्प्रया॑ह्यग्ने प॒थः क॑ल्पय देव॒याना॑न् | ए॒तैः सु॑कृ॒तैरनु॑ गच्छेम य॒ज्ञं नाके॒ तिष्ठ॑न्त॒मधि॑ स॒प्तर॑श्मौ ||

11.1.37

येन॑ दे॒वा ज्योति॑षा॒ द्यामु॒दाय॑न् ब्रह्मौद॒नं प॒क्त्वा सु॑कृ॒तस्य॑ लो॒कम् | तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं स्वऽरा॒रोह॑न्तो अ॒भि नाक॑मुत्त॒मम् ||