1.6.1
१-४ सिन्धुद्वीपः | (अथर्वा कृतिर्वा) | (अपांनपात्,) आपः, २ आपः सोमोऽग्निश्च | गायत्री, ४ पथ्यापङ्क्तिः | शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ | शं योर॒भि स्र॑वन्तु नः ||
अपां भेषजम्।

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
1.6.1
१-४ सिन्धुद्वीपः | (अथर्वा कृतिर्वा) | (अपांनपात्,) आपः, २ आपः सोमोऽग्निश्च | गायत्री, ४ पथ्यापङ्क्तिः | शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ | शं योर॒भि स्र॑वन्तु नः ||
1.6.2
अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा | अ॒ग्निं च॑ वि॒श्वशं॑ भुवम् ||
1.6.3
आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३ म॑म | ज्योक् च॒ सूर्यं॑ दृ॒शे॑ ||
1.6.4
शं न॒ आपो॑ धन्व॒न्या॒३ शमु॑ सन्त्वनू॒प्याः | शं नः॑ खनि॒त्रिमा॒ आपः॒ शमु॒ याः कु॒म्भ आभृ॑ताः शि॒वा नः॑ सन्तु॒ वार्षि॑कीः ||